________________
हिषी व्यधात् ॥ ६॥ देवीभिर्दीव्यतो राज्ञोऽन्यदाक्षरित्यभूत् पणः । जिताऽवकासिनाधेयमन्यपृष्टाधिरोहणम् | ॥७॥ अन्या राज्यः कुलोत्पन्ना व्यजयन्त नृपं यदा ।न्यधुस्तदा निजं वासस्तत्पृष्टे जयसूचकम् ॥ ८॥ वेश्यासुता तु राज्ञी सा विजिग्ये भूपमन्यदा । अध्यारुरोह निःशका तत्पृष्टं राजहंसवत् ॥९॥राजा जहास तत्स्मृत्वा श्रुतं भगवतो वचः। ततः सोत्तीर्य पप्रच्छादराद् हासकारणम् ॥ १०॥ श्रेणिकोऽपि जिनाख्यातं तस्याः पूर्वभवादिकम् । खपृष्टारोहपर्यन्तं वृत्तान्तं तत्पुरोऽवदत् ॥ ११॥ तच्छ्रुत्वा भवनिर्विण्णा लात्वाऽनुज्ञां प्रियस्य सा । प्रव्रज्य वीरपादान्ते तपस्तत्वा शिवं ययौ ॥ १२॥ कश्चित् कुष्ठयन्यदागत्य प्रणिपत्य गलत्तनुः । नाथांध्योलगयन् पूतिमुपवीरमुपाविशत् ॥ १३ ॥ विभावशातनानिष्ठं कुष्ठिनं श्रेणिकस्तथा। निरीक्ष्याध्यात्ममादध्यावयं बध्यो मयोत्थितः॥१४॥ तदा च वीरनाथेन क्षुते स्माह म्रियख सः। चिरंजीव महीनाथ श्रेणिकेन क्षुतेऽवदत् ॥ १५॥ अभयेन क्षुते जीव वा म्रियखेति सोऽब्रवीत् । मा जीव मा म्रियखेति कालसौकरिकक्षुते ॥१६॥ प्रभु प्रति म्रियखेति वचः श्रुत्वा रुषा नृपः । आदिदेश भटान ग्राह्य उत्थितः पाप्म्यसाविति॥१७॥ वीरं प्रणम्य कुष्ठी स उत्थितो देशनात्यये । अरोधि सुभटैः सद्यः पारिपन्धिकवत् तदा ॥१८॥ दिव्यरूपधरः कुष्ठी स तेषां
पश्यतामपि । द्वितीयभाखदाभासं कुर्वन्निव नभस्यगात् ॥ १९॥ तवृत्तान्ते भटैरुक्ते विस्मितेन महीभुजा । * कोऽसौ कुष्ठीति विज्ञप्तः खाम्यूचे घुसदित्ययम् ॥ २०॥ अपृच्छत् पृथिवीनाथस्तीर्थपं पुनरादरात् । कथं देवो
बभूवैष कुष्ठी वाऽजन्यसौ कथम् ॥२१॥ अथेत्थं भगवानाख्यद् वत्स देशेषु विद्यते। कौशाम्बीति पुरी तत्र शता