________________
चैत्यवन्दन
॥७१॥
जेण मरतेण इमो नवकारो पाविओ कयत्येण । सो देवलोयगंतुं परमपयं तंपि पावेइ ॥४॥ अतो ये क्रूरक-द कुलकवृतिः माणश्चौर्यपारदारिकत्वाद्यनेकव्यसनमग्ना अपि प्रांत्यसमये श्रीपञ्चपरमेष्ठिनमस्कारं प्राप्नुवन्ति, ते इंडिकचीरवद्देवादिसद्गतीः प्राप्य शाश्वतसौख्यभाजो भवन्ति । अत्रार्थे हुंडिककथा लिख्यते सुपार्श्वे पावतीर्थेशस्तूपाभ्यां या जगत्रये । जगाम परमां ख्याति, जज्ञे सा मथुरापुरी ॥१॥ यस्यां प्रांसुमहाशालकपिशीर्षालिमौलिषु । तारास्तारानिशि न्यस्ता, भ्रजिरे दीपिकाइव ॥२॥माभून्नो भूरिसंभूतं, वित्तं चित्तविमोहकृत् । इत्यदर्दानिनो यस्यां तदर्थिभ्योऽपि पुष्कलम् ॥३॥ नयेन पालयन शिष्टान् , दुष्टान्दण्डेन शिक्षयन् । सत्याभिधः क्षमाधीशस्तत्राभूच्छत्रुमर्दनः॥४॥ यस्यासिदंभतः पाणी, शङ्के कल्पलता बभौ । अन्यथा तत्प्रसत्याऽभूत्कथं तस्य मनोमतम् ॥५॥ जिनदत्ताभिधस्तत्र, श्रेष्ठ्यभूत्परमार्हतः। दानशीलतपोभाव, रूपधर्म इवाङ्गवान् ॥६॥ भवग्रीष्म भवद्भीष्म, दुःखोष्मापकृतेः कृते । कारुण्यकदलीसौधं, गुरुदेवं सिषेव यः ॥७॥ गुरुभ्यः कष्टतः प्राप्त, विवेक योहृदन्तरा । कदापि नामुचद्यनाद्विनिर्गमभयादिव ॥८॥ तत्रैवैकोऽभवच्चीयकलाकुशल-| |चेतनः। तस्करो हुंडिकाभिख्योऽलक्षकर्मविनिर्मितः॥९॥ अभैषीद्यो धनं लंठन् न मत्योनच भूपतेः। तस्य भीतिः कुतो यद्वा, सहायं यस्य साहसम् ॥ १०॥ पश्यतामपि सत्पुंसां, सारं दक्षतया हरन् । खां पश्यतोह-18|॥७१॥ राख्यां यो, यथार्थी विदधे भुवि ॥११॥ महर्धिकगृहे क्षात्रं, पातयन्नन्यदा च सः। बुबुधे तज्जनश्चक्रे, पूत्कारश्च तदोच्चकैः ॥१२॥ ततश्च राइनरैः सद्यः, पर्यवेष्ट्यंत तद्वहम् । काकैरिव दिवारूढघूकवृक्षमिवाभितः॥१३॥