________________
AAARRRRRRR
जगृहे तैर्लोहखुरतस्करो भास्करोदये । कोहि रात्रिंचरःप्राणी, दिवा नहि निगृह्यते ॥१४॥ तं बध्वा ते जगू राज्ञे, राजा तानिदमब्रवीत् । वध्यभूमौ विडंब्यामुं, क्षपध्वं शूलिकोपरि॥१५॥ आरक्षिकास्ततः क्षिप्रं, राजादेशं विनिर्ममुः। कोह्याधत्ते हिताकांक्षी, राज्ञामाज्ञाविलंघनम् ॥१६॥ तं क्षिप्त्वा शूलिकायान्ते, प्रच्छन्नं मुमुचुश्वरान् । तच्छुद्धिकारिणां-पुसां निग्रहाय दुरात्मनः॥१७॥तादृक शूलाव्यथार्तस्याऽप्यातपासविमोक्षतः। तस्य जज्ञे तृषा तीव्रा, कष्टात्कष्टतरी हि तृट् ॥१८॥ ततश्च याचते तस्मै, राजभीत्या कोऽपि पार्श्वगः। पयो नादाद्यतः प्रायः, खसापेक्षादया नृणाम्॥१९॥ निजपुण्याकृष्टमिव,पार्श्वयान्तं दयानिधिम्। जिनदत्तं ययाचेऽम्बुं सदीनास्यस्तृषातुरः॥२०॥ प्रत्यूचे सोऽपि तं चौरं, यावदम्बुसमानये । तावत्त्वं सद्गतेर्हेतुम् , गुणयालं नमस्कृतिम् ॥२१॥ ततश्च गुणयामास, नमस्कारं स उच्चकैः। अत्रामुत्र हितं मंत्रं,प्रावतयति कोहि न ॥२२॥ यावच्छ्रेष्ठिय़हादागाल्लात्वाम्बुकरकं करे । तावत्स गुणयामास, नमस्कारं गुरुखरम् ॥२३॥ अप्राप्तेऽम्बुनि संप्राप्तः, पञ्चत्वं स नमस्कृतः। धाम्ना समृद्धयक्षेषु, देवीभूयोत्पद्यते ॥२४॥ इति वै जिनदत्तस्य, वृत्तान्ते तैश्चरैः पुरः। राज्ञ उक्ते स बध्यतामा-15 दिशत्प्रति तांश्चरान् ॥ २५॥ विडंबयितुमारेभे, रासभारोपणादिभिः। यावत्तैः स तदा यक्ष, स्तावत्प्रायुक्त सोऽवधिम् ॥२६॥ ततः सोऽवधिदीपेन, नमस्कारप्रभावतः । देवत्वमात्मनो ज्ञासीच्छ्रेष्ठिनस्तद्विडम्बनाम् ॥२७॥ ततः कोपाद्विकृत्यादि, तत्पुरोपरि नागरान् । नृपाद्यानित्यभाषिष्ट, स नभस्थस्तिरोहितः ॥ २८॥ मगुरुं जिन-18 दत्तं यद्दयालुं विगतागसम् । कथयत भो यूयं, तेनाहं प्रचुकोप वः ॥ २९॥ इत्यहं गिरिणानेन, चूरयि