SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ॥४६॥ ललाटपट्टघटितभ्रुकुटिप्रकटक्रुधः। धरणः माह शरणं, मृगयख सुराधमः ॥४७॥ शान्तमार्गस्थितं पाप, कदर्थयसि मत्प्रभुम् । किमहं दीक्षितो मूर्ख, प्रभुरक्षणदीक्षितः ॥४८॥ इन्द्रजालमिवाशेषं, मेघजालमसौ क्षणात् । संहृत्य स्वामिनं नत्वा, क्षमयित्वागसात्मनः ॥४९॥ इति नागेन्द्रहक्काभिः, कमठः कम्पविग्रहः । भयोदत्वतिनिर्मग्नः, खत्राणोपायमूढधीः ॥५०॥ जगाम निजकं धाम, स्मरन् पार्श्वगुणावलिम् । विजहेऽन्यत्र पाश्चोऽपि, नैकत्र स्थितिरीदृशाम् ॥५१॥ त्रिभिः कुलकम्-विशालशालमालाभिर्मालितं खर्णशालितं । धरणः कारयामास, चैत्यं तत्र जगत्प्रभोः॥५२॥ श्रीपार्श्वप्रतिमां तत्र, फणामण्डपमण्डिताम् । धरणः स्थापयामास, खपुण्यकमलामिव ॥५३॥ उपान्तपत्तनस्यापि, तद्दिनान्मेदिनीतले। अहिच्छत्रेऽति सत्यार्थाभिख्याविख्यातिमासदत् ॥ ५४॥ दैत्योपसर्गसंसर्ग, निवार्येवं जिनेशितुः। धन्यंमन्यो निजं धाम, जगाम भुजगाधिपः॥५५॥ भुजङ्गनेतुर्धरणस्य लक्ष्मीर्जगचमत्कारकरी बभूव । यस्यानुभावाविकास्तमेव नक्तंदिवं भावपराः स्मरन्तु ॥५६॥ इति श्रीपञ्चपरमेष्ठिनमस्कारपारलौकिकफलविषये श्रीधरणेन्द्रकथा समर्थिता - इह चिंतामणिकामघटकल्पद्रुमवत्सार्वकामिकस्य, सकलमंत्रराजाधिराजस्य, श्रीपञ्चपरमेष्ठिनमस्कारस्याने-2 कशो महिमानः श्रूयंते-तथाहि, जं किंचिपरमतत्तं, परमप्पयकारणंच किंचि । तत्थ इमो नवकारो ज्झाइजइ8 |परमजोगीहिं ॥१॥जो गुणइ लक्खमेगं पूएइ विहीइ जिणनमुक्कारं । तित्थयरनामगोत्तं सो बंधइ नत्थि संदेहो ॥२॥ नवसरि हुंति सुराणं विजाहर ते य नरवरिंदाणं । जाण इमो नवकारो सा सुव्वपइडिओ कंठे ॥३॥
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy