SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ॥११३॥ चैत्यवन्दन- प्रबलैरपि वातूलैः प्रचलत्यचलः किमु ॥ २५ ॥ अनुकूलोपसर्गेऽस्मिन्निवृत्ते पारणा मया । कायोत्सर्गस्य कार्येति कुलकवृतिः प्रत्यौषीत् सुदर्शनः॥ २६ ॥ तेनावगणिता मानिन्यभया निर्भया रयात् । आदभ्रभुकुटीभीष्मा बभाषेऽधिसुदर्शनम् ॥ २७॥ मानिनां माननीयाया अपकर्ण्य मम द्रुतम् । किमकाण्डेऽपिरे मूर्ख ? मुमूर्षसि कुधीसख? ॥२८॥ काठिन्यं कठिनाद्यापि जहीहि भजख माम् । मृत्यवे ते भविष्यामि कालरात्रिरिवान्यथा ॥ २९ ॥ एवं भयानकैर्वाक्यैर्भाषितोऽभययाप्यसौ । न चुक्षोभ महाम्भोधिरुत्फालैः शरैरिव ॥३०॥ स्त्रीभिर्जलदधाराभिः पुंग्रावापि प्रभेद्यते । अयस्कान्तमणिः किन्तु शंके श्रेष्ठी सुदर्शनः ॥ ३१॥ अभयावाणिनाराचैन विभेदमनागपि । स्थाने सौदर्शनं वान्तमह द्वागवज्रवमितम् ॥ ३२॥ सुदर्शनस्य व्यसनं मन्ये वीक्षितुमक्षमा । व्यतीयाय क्षपा क्षिप्रं प्रादुरासीद दिनोदयः॥३३॥ ततो वीक्ष्याभया राज्ञी सुविभातां विभावरीम् । कायं कामांकुशैः कामं दारयामास दुष्टधीः ॥३४॥ उच्चैश्चकार पूत्कारमभया दाम्भिकाग्रणीः। ऊचे च कोऽपि & विष्टोऽस्ति मध्ये शुद्धान्तमन्दिरम् ॥ ३५॥ आरक्षकास्तत्क्षणादेव तन्निशम्य समागमन् । स्वामिग्रासाशिनो है मास्तत्कार्ये किमुदासते ॥ ३६॥ शान्तखान्तं कृतोत्सर्ग ददृशुस्ते सुदर्शनम् । दध्युश्चास्मिन्न संभाव्यमी-| दृशं कमेंधार्मिके ॥ ३७॥ आरक्षकोदितोदन्तो वेगेनागादथो नृपः । दृष्ट्वा सुदर्शनं दध्यौ किमेतदिति चेतसा ॥११॥ WI॥३८॥ अकार्येऽस्मिन् प्रववृते यद्येषोऽपि सुदर्शनः । मर्यादातिक्रमे तर्हि विश्वासः कोऽम्बुधेरपि ॥ ३९॥ न्यायपक्षी नृपोऽप्राक्षीत् तदवृत्तान्तं सुदर्शनम् । दयालुर्दयया देव्या नाचख्यौ किश्चिदेष तु ॥ ४०॥ तूष्णीं
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy