________________
काशकानि गले न्यधुः ॥४४॥ आरोपन्मुख मष्या तस्यांगं रक्त-51
मारेभिरे भ्रमयि
ॐॐॐॐॐॐ
४ स्थिते नृपोऽमंस्त सत्यमागः सुदर्शने । चौरजारनृणां लक्ष्म मौनमाहुर्मनीषिणः ॥४१॥ आदिक्षत् क्षितिपः। क्षिप्रमारक्षानतिकोपिनः। मध्ये पुरि परिभ्रम्य रे रे श्रेष्ठी निगृह्यताम् ॥४२॥ नृपास्थानाद गले लात्वा श्राद्धं ते निरकाशयन् । कालात्ययं न कुर्वन्ति सेवकाः खामिशासने ॥४३॥ तेऽमण्डयन् मुखं मष्या तस्यांगं रक्तचन्दनः। करवीरस्रजं मौलौ कौशिकानि गले न्यधुः॥४४॥ आरोप्य रासभेतं ते मस्तकन्यस्तशूर्पकम् । प्रारेभिरे भ्रमयितुं पुरि खनति डिम्डिमे ॥४५॥ युग्मम् । वसुधाधिपशुद्धान्तद्रोही श्रेष्ठी निहन्यते । दोषो भूपस्य नात्रेति घोषणां ते प्रचक्रिरे ॥४६॥ अहो सुदर्शनस्यापि कीदृशी कुदशाभवत् । इत्याख्यन् विदधे लोको महा हाहा रवं पुरि ॥४७॥ स आरक्षकैः परिभ्रम्य सर्वत्र त्रिकचत्वरे । क्रमात् खमन्दिरद्वारमानिन्ये श्रीसमुद्वरम् ॥४८॥ प्रेयांसं दुर्दशां प्राप्तमवलोक्य विवेकिनी । मनोरमा मनोधाग्नि चिन्तामेवमनाटयत् ॥४९॥ मेरुः प्रचलति स्थानात् सीमां लंघयतेऽर्णवः । पश्चिमायामुदत्यकः कदाचित् कालयोगतः ॥५०॥ अहंद्वचन
चातुर्यनिष्पकम्पमना ध्रुवम् । तथापि न चलत्येष मत्कान्तः शुद्धशीलतः॥५१॥ युग्मम् । राजापि न खला&चारः सुविचारित कार्यकृत् । इदमप्रतिमल्लस्य विधेर्विलसितं ततः॥५२॥ उद्यमं विदधे किश्चित् प्रियव्यापन्नि
वृत्तये । दुःसाध्यमपि धीमभिः साध्यं साध्यत उद्यमात् ॥५३ ॥ ध्यास्वैवमविशद् धाम श्रेष्ठिनी सागमनोरमा । चक्रे शोचवन्ती चाहत्पतिमाा मुदांचिता ॥ ५४॥ उत्सर्ग पारयिष्यामि तदा शासनदेवते । कल्पद्रुमवदलं कर्त्ता यदा सांगणं प्रियः॥५५॥ इत्युक्त्वा सा ददौ सद्यः कायोत्सर्ग महासती । विपत्ति