________________
हचिकी कृती । समये भोजराजेन्द्रमाशिष्यैवं व्यजिज्ञपत् ॥३६॥ भोजराज महाराज! भवताऽतःपरं मम । माननीया सदा सेवा, सद्मन्येवाधितस्थुषः ॥३७॥ पृष्टं राज्ञाऽथ तद्धेतुमुक्त्वा विद्वान्नपं जगौ । रुष्टोऽपि देव मांदेशान्निःसारयेनं मारयः ॥३८॥ तदाकर्ण्य सकर्णोक्तं, प्रतिशुश्राव भूपतिः।गुणैरावर्जितो यदा, किं नाङ्गीकुरुतेनरः॥ ३९॥ ततोऽर्हद्धर्मकर्माम्भःस्नानक्षालितकश्मलः । स्ववाचा सुदृशश्चक्रे, सोऽन्यान्मिथ्यादृशोऽपि हि ॥ ॥४०॥ अन्यदा श्राद्धविध्याख्यं, चक्रे प्रकरणं बुधः। दर्शयितुं विधिं श्राद्धं, श्रावकाणां हितेच्छया॥४१॥चरित्रमादिनाथस्य, विदधे तेन चान्यदा। तदूचे भोजराजस्य, पुरस्तात् द्वेषिभिर्द्विजैः॥४२॥आनाय्य भोजराजेन तच्चरित्रस्य पुस्तकम्। वाचितं श्लाघितं चेत्थं विशिष्टं चरितं कृतं॥४३॥ किंतु त्वयाऽऽदिनाथोऽत्र, निक्षिसो यत्र यत्र च। महेश्वर महादेवं, तत्र तत्र च निक्षिपं ॥४४॥ इत्युक्तो भोजदेवेन, धनपालस्ततोऽब्रवीत् । मुक्त्वा तीर्थकरं देवं, नान्यं स्तोष्यामि जिह्वया ॥४५॥ स्वाग्रहाद्भोजदेवेन, तदेवोचे पुनःपुनः। द्विजत्वाद्धनपालस्य, महाकोपानलोउज्ज्वलत्॥४६॥ शीतकाले तदा शीतशान्त्यै ज्वलितपावके। ततोऽसौ प्राक्षिपत्पुस्तं, वार्यमाणोऽपिभूभुजा ॥४७॥ पश्चाद्गृहागतः पश्चात्तापाद्यावतिं न सः। कचिल्लेभे प्रिया तावत्पप्रच्छारतिकारणम् ॥४८॥ ऊचेऽथ धनपालेन, चरित्रं विदधे मया। श्रीआदिनाथदेवस्य, तदप्लोषि च रोषतः॥४९॥रतिं ततो न लेभेऽहं, लुप्ससार इवाध्वगः। पण्डितान्या ततःप्रोचे, धनपालप्रियं प्रति॥५०॥चरित्रं कुर्वतस्ते मे, श्लोकाः कतिचिदागमन् ।गदितास्ते तया तेन, कृतं तच्चरितं पुनः ॥५१॥ अन्यदा भोजदेवेन, सरसी कारिताऽद्भुता । प्रज्ञानुसारतःसर्वैस्तुष्टुवे पण्डितैरिति ॥५२॥