________________
॥ ९४ ॥
चैत्यवन्दन- दध्यहर्द्वितयातीते, तद्वर्णाः कुंथवो यतः । जायन्त इति सिद्धान्तेऽभणि श्रीसर्ववेदिभिः ॥ २० ॥ तच्छ्रुत्वा वि| स्मितखान्तो, धनपालोऽभ्यधान्मुनी । साधू ? वयं प्रतीमो न, तान् दृष्ट्या दर्शनं विना ॥ २१ ॥ ततस्तौ तत्प्रबोधाया| तपे धारयतां दधि । ततः क्षणेन तस्योर्ध्वं रुतं रक्तं च दधतुः॥२२॥ तद्यावदातपोत्तापात्कदुष्णं दध्यजायत । तावत्तैः कुन्थुभिः क्षिप्रं, समारोहि रुतोपरि ॥ २३ ॥ ततस्तैर्धवलीभूतं, रुतं दृष्ट्वाऽब्रवीत्स तौ । जातं श्वेतं किमित्येतत्कुन्धु|भिः प्रोचतुर्मुनी ॥ २४ ॥ इति साध्वोर्वचश्चक्षुरविसंवादकं सुधीः । आकण्यन्मुक्तमिथ्यात्वश्चेतसेति व्यचिन्तयत् ॥ २५ ॥ अहो जीवदयामूलो, धर्मो यो जिनशासने । एष एव हि संसारसिन्धौ प्रवहणायते ॥ २६॥ धन्याविमौ - | मुनी ईदृग्जीवरक्षणपूर्विका । याभ्यामविक्रियाकाभ्यां क्रियते सत्क्रियान्वहम् ॥ २७ ॥ इति ध्यात्वा मुनी नत्वा, सह ताभ्यामुपागमत् । धनपालः सुधीशालः, सद्गुरोरन्तिके मुदा ||२८|| ततो बद्धांजलिं संजुं तं नतं प्रति सगुरुः । विशेषतो व्यधाद्धर्मदेशनां तत्त्वदर्शिकाम् ॥ २९ ॥ सुदृग्बीजो दयामूलो, दानमुख्योरुशाखकः । स्वर्गाधर्द्धिसुमो मोक्षफलो धर्मसुरद्रुमः ॥ ३० ॥ ततस्तमिच्छता पूर्व, ग्राह्यं सम्यक्त्वमुज्ज्वलम् । तच्च देवे गुरौ धर्मे, तत्वबुद्धिमयं स्मृतम् ॥ ३१ ॥ इदं बीजं मनः कोष्ठे, न्यस्य कार्या हितेच्छुभिः । शङ्कादिघुणरक्षार्थं, रक्षावद्भावनास्थिरा ॥ ३२॥ इति वाचं गुरोः श्रुत्वा स जज्ञे परमार्हतः । अथवा संस्कृते भित्तिदेशे चित्र लगेन्न किम् ? ॥३३॥ स भावाधिक्यतो गुर्वन्तिकेऽभिग्रहमग्रहीत् । न कार्याऽतः परं मिथ्यादृग्राजादेरपि स्तुतिः ॥ ३४ ॥ श्रीमत्तीर्थं - करं देवं, त्रिलोकीलोकनायकम् । सुसाधून तदुपज्ञं च, धर्मं स्तोष्याम्यहं सदा ॥ ३५ ॥ इत्यङ्गीकृत्य कृत्यज्ञस्तन्नि
॥ ९४ ॥
कुलकवृचिः