________________
मश्रियौ ॥५॥प्रतिहर्तुमनीषानां, जीवितान्मरणं वरम् । इत्यसूनत्यजन् युद्धे, पूर्व यत्प्रहतषिः ॥६॥ विद्वत्पं
चशतीमुख्यो, धनपालाऽभिधो द्विजः। तत्र षड्दर्शनीदानदानशौण्डोऽभवद्गुणी॥७॥ सर्वाः शब्दादयो विद्याविद्याधर्य इवानिशम् । क्रीडाक्रीड इवाक्रीडन् , हृत्क्रोडे यस्य लीलया ॥८॥ कण्ठस्थभारतीजातीसङ्गसञ्जातसौरभा । यद्बागामोदयामास, स्थाने श्रीभोजभोगिनः॥९॥ क्रीडया भोजराजेन, पापर्धिवजताऽन्यदा । नृत्यज्जात्यहयारूढो, धनपालःसहाव्रजत् ॥१०॥राजा कचिद्गगनमुच्चलतःकुरङ्गान् , दृष्ट्वा 'किरीश्च खनतःक्षितिमेनमूचे । किं कारणं तु कविराज! मृगा यदेते, व्योमोत्पतन्ति विलिखन्ति भुवं वराहाः॥११॥ एवं नृपेण भणितो धनपालविद्वानोत्पत्तिकीप्रमुखबुद्धिनिधिभाषे। देव ! त्वदनचकिताः श्रयितुं स्वजातिमेके मृगाङ्कमृगमादिवराहमन्ये ॥१२॥ अन्यदा धनपालस्यावासे भिक्षार्थमाविशत् । साधुसंघाटकाक्षात्यादिधर्म इव जङ्गमः॥१३॥ तदा साध्वहेराद्धान्यवस्त्वभावात् त्र्यहोद्भवम् । दध्यादाय समुत्तस्थौ, धनपालस्य गेहिनी ॥१४॥ साधुभ्यां सा ततोऽप्रच्छि, दधीदं कतिवासरम् ? । दध्यहतियातीतमित्यूचे साऽपि तत्पुरः॥१५॥ दध्यहर्द्धितयातीतमस्माकं नैव कल्पते । इत्युक्त्वा निर्ययौ साधुयुगलं तद्द्वहाबहिः॥१६॥ निःसरन्तौ मुनी रिक्तौ गवाक्षस्थेन वीक्षितौ। दधिकिंमत्प्रियादत्तं, नात्तमाभ्यां विचिन्त्य च ॥१७॥ गवाक्षाहनपालेन, समुत्थाय समेत्य च । महामुन्योस्तयोःपार्श्वेऽभिवन्द्याऽप्रच्छि सादरम् ॥१८॥ मुनी ! वः कल्पते किं न, दधीदं तावथोचतुः । ध्येतद् द्विदिनातीतमित्यतो नैव कल्पते ॥१९॥
१ वराहान् ।