SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन-४ श्रेणिकाय ददौ तदा ॥ ७७॥ उत्तिष्ठेद् यद्हादग्निर्निर्वास्यः स पुरादिति । स्ववचः स्मरन् भूपालश्चिन्तयामासि कुलकवृत्तिः । वानिदम् ॥ ७८॥ दाराः पुराणि रम्याणि जीवितव्यं च सत्तमाः । त्यजन्ति तृणवत् सर्वं न पुनः खंप्रतिश्रुतम् ॥२१॥ ॥ ७९ ॥ इति ध्यात्वा धराधीशो ग्रामणीरभिमानिनाम् । क्रोशेनैकेन नगराच्छिबिरं संन्यवीविशत् ॥८॥ तत्रायान्तो व्रजन्तो वा जना इत्थं मिथोऽवदन् । क व्रजिष्यथ यास्यामो वयं राजगृहं प्रति ॥ ८१॥ ततो राजगृहाभिख्यं तत्रैव नगरं नृपः । परिखावप्रसौधादृचैत्यरम्यमकारयत् ॥ ८२ ॥ राज्याहं तनयं मैनमन्ये राज्याईमानिनः । ज्ञासिषुरित्यवाज्ञासीत् श्रेणिकं भूपतिर्मुहुः॥८३ ॥ देशान् ददौ कुमाराणां पृथ्वीपालः पृथक पृथक् । न किंचिच्छ्रेणिकायादादू राज्यं दित्सुर्निजं हृदि ॥ ८४ ॥ ततः खतातविहितं परिज्ञाय पराभवम् । खचित्ते चिन्तयामास श्रेणिको मानिनां वरः ॥ ८५॥ पुरं राज्यं च मुक्त्वाऽहं गच्छाम्यन्यत्र कुत्रचित् । मानिनां मानभने हि विदेशः शरणं खलु ॥८६॥ ततो बाहुसहायोऽसौ निशि साहसिकाग्रणी । निःसृत्य खपुरादाप वेणातटपुरं क्रमात् ॥ ८७॥ तत्र च प्रविशन् भद्राभिधस्य श्रेष्ठिनोऽथ सः । द्रव्यलाभोदयो मूत्ते इवोपाविशदापणे ॥ ८८॥ गरीयानुत्सवः कश्चित् तदा च नगरेऽभवत् । खाद्यपेयदुकुलाङ्गरागताम्बूलयुगजनः ॥ ८९ ॥ प्रभूतग्राहकैः श्रेष्ठी स आसीद् व्याकुलस्तदा । बद्धाऽदाच्छ्रेणिकस्तस्मै स्राक पुटीपुटकादिकम् ॥९०॥|| ॥२१॥ |श्रेष्ठी कुमारमाहात्म्याद द्रव्यं भूयिष्टमार्जयत् । कल्पद्रोरिव नो फल्गु सङ्गः स्याद् भाग्यशालिनः ॥ ९१ ॥ अद्यावितथपुण्यस्य कस्यातिथिरसीत्यथ । श्रेष्ठिना श्रेणिकः पृष्टो बभाषे भवतामिति ॥ ९२॥ श्रेष्ट्यूचे कृतपु
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy