SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ योऽहमद्य यस्य गृहं भवान् । चिन्तामणिरिवानयेः प्राघूर्णकतयाऽगमत् ॥ ९३ ॥ खन्मयूखरत्नौघशालिने बीचमालिने । गृहागताय वकन्या नन्दाऽदायि मया मुद्रा ॥ ९४ ॥ इति स्वप्ने मया नन्दायोग्यो भर्त्ता समैक्षि यः । साक्षादसौ स एवेति श्रेष्ठी चेतसाऽचिन्तयत् ॥ ९५ ॥ युग्मम् ॥ संवृत्याहं ततः श्रेष्ठी नीत्वौकसि सगौरवम् । संखाप्य चारुवीराणि महायान भोजयत् ॥ ९६ ॥ तिष्ठन्यं च तने श्रेणिका श्रेष्ठिनान्यदा । नन्दामिमां | परिणय मत्सुतामित्यभाषत ॥ ९७ ॥ ममाज्ञातकुलस्यापि कथं दत्सेःसुनामिति । श्रेणिकेनोक्त ऊंचे स तब | ज्ञातं गुणैः कुलम् ॥ ९८ ॥ ततः श्रेष्ट्युपरोधेन लसदूधवलमङ्गलम् । नन्दाया भूपतिसुतञ्चकार करपीडनम् ॥ ९९ ॥ भुञ्जानो भोगभङ्गीं स सानन्दं नन्दया समम् । कुञ्जे कुञ्जरवत् तत्र श्रेणिको स्थान्नृकुञ्जरः ॥ १०० ॥ विवेद मेदिनीशोऽपि श्रेणिकोदन्तमादितः । चरैश्चारदृशो यस्माद् भवन्ति पृथिवीभुजः ॥ १ ॥ कृतान्तकिंकर | इवानिवार्यप्रसरोऽन्यदा । गदोऽभूत् भूपतेर्देहे को वा छुटति कर्मणः || २ || पर्यन्तसमयं स्वस्थ ज्ञात्वा राज्यधुरंधरम् । आनेतुं श्रेणिकं भूपः प्राहिणोदौष्ट्रिकान्निजान् ||३|| औष्ट्रिकेभ्यः समाकर्ण्य ताताङ्गाति सुदुःसहामू । नन्दां संबोधयामास यियासुः श्रेणिकः सुधीः ॥ ४ ॥ पाण्डुरकुड्या गोपाला वयं राजगृहे पुरे । इत्याकर्षक मन्त्राभान्यक्षराणि च सोऽर्पयत् ॥ ५ ॥ मा भूत् तातस्य रोगातर्मदर्त्तिरधिकेत्यरम् । उष्ट्रीं श्रेणिक आरुह्यागमद् राजगृहं पुरम् || ६ || प्रहृष्टः श्रेणिकं दृष्ट्वा राजा हर्षाश्रुभिः समम् । राज्येऽभ्यषेचत् सजलैः कलशैः कलधौतजैः ॥ ७ ॥ भवन्तु भगवन्तो मेऽर्हन्तः सिद्धाश्च साधवः । धर्मः केवलिप्रज्ञप्तः शरणं शरणार्थिनः ॥ ८ ॥
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy