SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ कुलकवृत्तिः चैत्यवन्दन॥ २२॥ परमेष्ठी पिष्टकर्मा भावाहन परमेश्वरः । श्रीपार्श्वः शरणं मेऽस्तु शरणं जगतोऽपिहि ॥९॥ अष्टादशपापस्थानान्य असा व्युत्सृजाम्यहम् । ज्ञानादीनामतीचारान् कृतान्निन्दामि भावतः ॥१०॥ पुनरक्रियया सर्व प्रत्यक्षं परमे |ष्ठिनाम् । निन्दामि दुष्कृतं सर्व सुकृतं त्वनुमोदये ॥११॥ क्षमयाम्यखिलान् जीवान् तेऽपि क्षाम्यन्तु मां समे । | तेषु सर्वेषु मैत्री मे समस्तु समचेतसः ॥ १२ ॥ इत्थमाराधनासौधरसपानपरो नृपः । प्रसेनजित् जगाम द्या तादृशां किं दुरासदम् ॥१३॥ विश्वं विश्वंभराभारं बभार श्रेणिको नृपः । नन्दापि दुर्वहं गर्भ शुक्तिकेव सुमोक्तिकम् ॥ १४ ॥ सिन्धुरस्कन्धमारूढा ददाम्यभयमङ्गिनाम् । पुरेऽखिलेऽपीति जज्ञे नन्दाया दोहदोऽन्यदा |॥ १५॥ राजानं विज्ञपय्याऽथ भद्रेणापूरि दोहदः । रत्नगर्भेव साऽसूत पुत्ररत्नं शुभेऽहनि ॥१६॥ नान्देयस्थाथ सुदिने दोहदानुसारतः । नामाऽभयकुमारेति ददौ मातामहो मुदा ॥१७॥ साक्षीकृत्य कलाचार्य | कलावानिव सत्कलाः । सकला: कलयन्नेष क्रमाज्जज्ञेऽष्टवार्षिक:॥१८॥सवयाः कोऽपि कोपेन कलहे तमत|जेयत् । किं त्वं जल्पसि यस्याहो जनको ज्ञायते नहि ॥ १९॥ अभाणीदभयो भद्र भद्रश्रेष्ठी पिता मम । तव मातुः पिता भद्रः प्रत्युवाचेति सोऽभयम् ॥ २० ॥ नन्दा प्रत्यभयोऽप्यूचे मातः को मे पितेत्यथ । भद्रश्रेष्ठी |पिता तेऽयं नन्देति त्वभयं जगौ ॥ २१॥ तातस्तेऽभिहितो भद्रो न मदीयः स तेन तु । नन्दोक्ता नन्दननति निरानन्दाऽब्रवी दिदम् ॥ २२॥ देशान्तरात्समायातो मां परिणीय कश्चनः । गर्भस्थे त्वय्यगात् साकमौष्ट्रिकैः | कैश्चिदागतः ॥ २३ ॥ स यान् किंचिज्जजल्प त्वामिति पृष्टाऽभयेन सा । अक्षराण्याप्तिान्यतानीति पत्रमदशे
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy