________________
यत् ॥ २४ ॥ तद् विभाव्याभयो हृष्टोऽवदत् तातो ममेशिता । पुरे राजगृहे तत्र गच्छावो द्रुतमम्बिके ॥ २५ ॥ श्रेष्ठिनं भद्रमापृच्छय मान्दयो नन्दयान्वितः। अगात् समग्रसामग्रीयुक्तो राजगृहं पुरम् ॥ २६ ॥ निजाऽम्बां बहिरुद्याने विमुच्य सपरिच्छदाम् । प्रविवेशाभयः खल्पपरिवारयुतः पुरे ॥२७॥ इतश्च तत्रैव पुरे श्रेणिकः क्षोणिनायकः । शतपञ्चकमेकोनं मेलयामास मत्रिणाम् ॥ २८॥ राज्यकार्यधुराधुर्य चतुर्धा बुद्धिवन्धुरम् ।। तेष्वादिमं कर्तुकामः कंचिन्नरमुदक्षत ॥ २९॥ पुंरत्नस्य ततस्तस्य परीक्षार्थ क्षितीश्वरः । निजोमिकां निचिक्षेप शुष्ककूपस्य कोटरे ॥३०॥ आदिदेश स देशस्थान् जनानेतच्च भूपतिः। एतां यः कूपकण्ठस्थः करग्राहं ग्रहीष्यति ॥ ३१॥ तस्मै तत्कौशलालोके प्रमवरमना अहम् । दास्ये राज्याई कमलां पुत्रीं मत्रिषु धूर्यताम् ॥३२॥ मिथोऽथ कथयामासुर्नागरा दुष्करं ह्यदः। कर्षेत् हस्तेन यस्ताराः स इमामूमिकामपि॥३३॥ तत्रामरकुमाराभः सुकुमारशरीरकः । अथाभयकुमारोऽपि पुरे भ्राम्यन् समागमत् ॥ ३४ ॥ कुण्ठी स्याद् येषु कार्येषु विदुषामपि शेमुषी । तत्राप्यस्खलिता यस्य धीर्वाल्येऽपि व्यजृम्भत ॥ ३५॥ भूतभाविषु भावेषु भवत्सु च धियांनिधेः। यस्यातिशयज्ञानिवन्मनीषा कापि नास्खलत् ॥ ३६॥ यस्य सूच्यग्रसूक्ष्मापि कुशाग्रीयमतेर्मतिः। दम्भोलिरिव भूमीभृत्पक्षतक्षणमादधे ॥३७॥ चतुर्भिः कलापकम् ॥ किमेतदिति नन्दाया नन्दनोऽप्रश्नयजनान् । कूपाकस्थोम्मिकावृत्तं तेऽपि कृत्स्नमचीकथन् ॥ ३८ ॥ स स्माह सस्मितं पौरान सितयन् दन्तकान्तिभिः। नादीयते किमेषा भोः किमेतदपि दुष्करम् ॥३९॥ तन्निधाय जना युः कोऽप्यसाववदातधी। अस्योल्लासो हि समये