SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन ॥२३॥ | पुंसां शंसति कौशलम् ॥ ४० ॥ स्माहुस्ते स्वीकुरुष्वेमां मुद्रिकां तत्पणीकृताम् । राज्यार्द्ध कमलां कन्यां सचिवेषु च मुख्यताम् ॥ ४१ ॥ ततो नन्दानन्दनोऽपि कूपक्रोडस्थितोम्मिकाम् । आर्द्रगोमयपिण्डेन ताडयामास धीनिधिः ॥ ४२ ॥ ऊर्ध्वं ज्वलन्तं तत्कालं निक्षिप्य तृणपूलकम् । तद्गोमयं श्रेणिकसूः शोषयामास रंहसा ॥ ४३ ॥ कारयित्वाऽभयः कुल्यामन्तिक स्थितकूपतः । वारिणाऽपूपुरत् कूपं पौरांश्चाश्चर्यदानतः ॥ ४४ ॥ तरदू| गोमयपिण्डस्था मूमिकामभयो ललौ । सुप्रयुक्त उपायो हि सुधियां किं न साधयेत् ॥ ४५ ॥ ततश्च नागराः स्माहुर्विस्मयस्मेरलोचनाः । शिशोरप्यस्य धन्यस्य कीदृशं मतिकौशलम् ॥ ४६ ॥ विकटमदोत्कटकरिघटतटपा| टनकर्म केशरिकिशोरः । लघुरपि लीलाललितः कलयति कल विक्रमाक्रान्तः || ४७|| निजसौरभेण ककुभः सुरभयते सुलघु केतकीकुसुमम् । तस्माद् वयोऽप्रमाणं परं प्रमाणं गुणोत्कर्षः ॥ ४८ ॥ युग्मम् ॥ ततश्च मुद्रिकारक्षाका| रिणः सत्वरं नराः । गत्वा विज्ञपयामासुः प्रणम्य क्षितिरक्षिणे ॥ ४९ ॥ देव केनापि बालेनाऽयालेन मतिकौ - | शलात् । जगृहे मुद्रिकारत्नमुक्तरीत्याऽवटोदरात् ||१०|| श्रेणिको विस्मितः शीघ्रमाजुहावान्तिकेऽभयम् । समागतं निरीक्ष्यामुं मुदाऽभूद् द्विगुणाङ्गकः ॥ ५१ ॥ तमालिंग्योपवेश्याङ्के नृपोऽभाषत साञ्जसम् । वत्स त्वं कुत | आयासी बलेऽपीदृशधीनिधिः ॥ ५२ ॥ अभाणीदभयो भूपं सुधामधुरया गिरा । राजन्नन्नागमं वेणातटा| ख्यान्नगरादहम् ॥ ५३ ॥ अपृच्छद् भूपतिर्भूयः किं भद्र श्रेष्ठिनन्दना । नन्दाख्याऽस्ति पुरे तत्र किं साऽसृत च जातकम् ॥ ५४ ॥ नृपं प्रोचेऽभयो नन्दा तत्रास्त्येवेति वेद्यहम् । कलाकेलीयमानं च सा नन्दनमजीजनत् । कुलकवृत्तिः ॥ २३ ॥
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy