SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ थोक्तरूपस्य ग्रन्थिभिदां विधाय मिथ्यात्वमोहनीयकर्मस्थितेरन्तर्मुहूर्त्तमुदयक्षणात् उपरि अतिक्रम्यानिवृत्तिकरणसंज्ञितेन विशुद्धिविशेषेणाऽन्तर्मुहर्त्तकालप्रमाणं वेद्य दलिका भावरूपमन्तरकरणं करोति, अत्र च यथाप्रवृत्तापूर्वानिवृत्तिकरणानाम् अयं क्रमः - यथा “जा गंठी ता पढमं गंठी समयछेउं हवइ वीयं । अनियट्टीकरणं पुण सम्मत्तपुरखडे जीवे ॥ १ ॥ " 'मंठि समय छेउत्ति' ग्रथिं समतिक्रामतो भिन्दानस्य इत्यर्थः, 'सम्मत्तपुरक्खडेत्ति' सम्यक्त्वं पुरस्कृतं येन तस्मिन्नासन्नसम्यक्त्वे एव जीवे अनिवृत्ति करणं भवतीत्यर्थः, तस्मिंश्चान्तरकरणे कृते सति, तस्य मिथ्यात्वमोहनीयस्य कर्मणः स्थितिद्वयं भवति - अन्तरकरणादधस्तनी स्थितिरन्तर्मुहूर्त्तप्रमाणा, तस्मादेव उपरितनी शेषा द्वितीया स्थितिः स्थापना, तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेव अन्तर्मुहूर्त्तेन तस्यामुपगतायामन्तरकरणप्रथमसमये एव औपशमिकसम्यक्त्वमवाप्नोति मिथ्यादलिकवेदनाभावात्, यथाहि - वनदवः पूर्वदग्धेन्धनमुषरं वा देशमवाप्य विध्यायति, तथा मिथ्यात्व वेदनवनदवोऽप्यन्तरकरणमवाप्य विध्यायति, तथा च सति तस्योपशमिकसम्यक्त्वलाभः, उक्तंच "ऊसरदेसं दडिल्लियं च विज्झाय | वणदवो । पप्पइय मिच्छत्तस्सणुदए उवसमसंमं लहह जीवो ॥ १ ॥” उपशमश्रेण्यारूढस्य चौपशमिकं, तदुक्तम् " उवसामगसेढिगयस्स होइ उवसामियं तु सम्मत्तमिति” तथा उदीर्णस्य मिध्यात्वक्षयेणानुदीर्णस्य चोपशमेन सम्यक्त्वरूपतापत्तिलक्षणेन विष्कम्भितोदयत्वरूपेण च यन्निर्वृत्तं तत् क्षायोपशमिकं, तच्च एवं वर्णितविधिना लब्धेनोपशमिकसम्यक्त्वेन औषधविशेषकल्पेन मदनकोद्रववन्मिथ्यात्वमोहनीयं कर्म जीवः
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy