________________
चैत्यवन्दन- पुद्गलपरावर्त्तान् अनुभवति, ततः कर्मपरिणामनृपादेशात् तथाभव्यतानियोगेन बादरनिगोदपृथिव्यप्तेजोवायु-कुलकवृत्तिः
प्रत्येकवनस्पतित्रसेषु चतुर्गतिषु छेदनभेदनताडनवुभुक्षापिपासाजन्मजरामरणाधिव्याधिभूरिभाराक्रमणगर्भवा॥१६॥
सशोकभयेष्टवियोगानिष्टसंप्रयोगाविषादादिप्रभूतवेदनाम् अनन्तकालं सर्वोऽपि जन्तुः संसारपादपबीजभूतमिथ्यात्वमोहनीयप्रत्ययाद् अनुभवति, ततस्तथा भव्यत्वपरिपाकवशात् चातुर्गतिकोऽपि जन्तुर्गिरिसरिदुपलघ|ञ्चनाघोलनाकल्पेनाऽनाभोगनिर्वर्तितेन यथाप्रवृत्तिकरणसंज्ञकेन करणपरिणामोऽत्रेति वचनादध्यवसायविशेषेणाऽऽयुर्वर्जानि सर्वाण्यपि ज्ञानावरणादिकर्माणि पल्योपमासंख्येयभागन्यूनैकसागरोपमकोटिकोटिस्थितिकानि करोति, अत्र चान्तरे जीवस्य कर्मपरिणामजनितो घनरागद्वेषपरिणामरूपः कर्कशनिबिडचिरप्ररूढगुपिलवल्कलन-18 न्धिवत् दुर्भेद्योऽभिन्नपूर्वो ग्रन्धिर्भवति, उक्तं च घंचणा घोलणा जोगा जीवेण जया हविज कम्मठिई । खविया सबासागर कोडाकोडिं पमुत्तुणं ॥१॥नियवीयथोवमित्तं खवियं इत्थं तरम्मि जीवस्स। हवइ अभिन्नपूवो गंठी ए |वं जिणा विति॥२॥गंठित्ति सुदुन्भेओ कक्खडघणरूढगूढ गंठिच । जीवस्स कम्मजणिओ घणरागद्दोसपरिणामो M॥३॥इमं च ग्रन्थि यावदभव्या अपि यथा प्रवृत्तिकरणेन कर्म क्षपयित्वाऽनन्तशः समागच्छन्ति, न पुनर्मिन्दन्ति, यदुक्तमावश्यकटीकायामभव्यस्यापि कस्यचिद यथाप्रवृत्तिकरणतो ग्रन्धिमासाद्याऽहंदादिविभूतिदर्शनतः प्रयो
॥१६॥ जनान्तरतो वा प्रवर्त्तमानस्य श्रुतसामायिकलाभो भवति,न शेषलाभ इति एतदन्तरं पुनः कश्चिदेव महात्मा समा पन्नपरमनिवृत्तिसुखः समुल्लसितप्रचुरदुर्निवारवीर्यप्रसरो निशितकुठारधारया इवापूर्वकरणरूपपरमविशुद्ध्या य