________________
चैत्यवन्दन-शोधयित्वा त्रिधाकरोति, शुद्धमर्द्धविशुद्धमविशुद्धं चेति, स्थापना तत्र त्रयाणां पुञ्जानां मध्याद् यदा शुद्धपुञ्जदूकुलकवृत्तिः
उदेति तदा तदुदयवशात् जीवस्य विशुद्धमहदभिहिततत्त्वश्रद्धानं भवति, तेन तथा क्षायोपशमिकं दर्शनं । ॥१७॥
सामानोति यदात्वर्धविशुद्धपुंज उदेति तदा तदुदयवशाजीवस्याविशुद्धमहदभिहितं तत्वश्रद्धानं भवति तदासी ।
सम्यक मिथ्यादृष्टिः,यदातु अविशुद्धपुञ्ज उदेति तदा मिथ्यादृष्टिः, अन्न चाविशुद्धपुञ्जादू विशुद्धार्द्धविशुद्धयोः पुञ्जयोः संक्रातिर्भवति,अर्द्धविशुद्धाच तदन्ययोर्द्वयोर्विशुद्धत्वाविशुद्ध एव नतु मिश्रे तदुक्तं "मिच्छत्तासंकंती है अविरुद्धा होइ सम्ममीसेसु । मीसाओ वा दोसुं सम्मामिच्छं नउणा मीसं ॥१॥” तथा त्रिविधस्यापि दर्शनमोहनीयस्य क्षयेणाऽत्यन्तिकोच्छेदन निवृत्तं क्षायिकं, तच्च क्षपकश्रेणिमारोहतो भवति, इत्युक्तमापशमिकादि भेदतस्त्रिविधं सम्यक्त्वं, सिद्धान्ते चान्येऽपि वेदकरोचकादयः सम्यक्त्वभेदाः सन्ति, ते चात्र गन्थगौरवान्न प्रतन्यंते, तच्च सम्यक्त्वममीभिः पञ्चभिरतिचारैरकलुषं कार्य, तथथा-शंका-कांक्षा-विचिकित्सा-मिथ्यादृष्टिप्रशंसनं । तत्संस्तवश्च पञ्चापि सम्यक्त्वं दषयन्त्यमी ॥१॥ तत्र तीर्थकरदेवोक्तजीवादी तत्वनबके संदापकरण शंका, जिनदर्शनं शोभनमन्यान्यपि जटाधरादीनि दर्शनानिशोभनानिइति चेतति बुद्धि|जेल्पनं वा कांक्षा, अस्माद् यतिधर्मात् श्रावकधर्माद्वा भवान्तरे किंचित्फलं भविष्यति नवेति संशयो विचिकित्सा, अथवा साधूनां मलिनाङ्गादीनां जुगुप्मा विचिकित्सा, मिथ्यादृष्टीनां जटाधरादीनामतिशयं दृष्ट्वा । प्रशंसनं प्रशंसा, तैर्मिध्यादृष्टिभिः संस्तव: परिचयस्तत्संस्तव:, एतच्च सम्यक्त्वमांतरपरिणामरूपमप्रत्यक्षमपि