SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ किं कदाचन ॥ १९॥ विना छत्रधरं सोऽन्यभटैः खौकोदिदृक्षया । तदौज्झि वा खपत्यर्थे खार्थं त्यजति कोऽपि |हि ॥ २०॥ त्रुटनादिव भूपालो यात्रासु कृतभागिनाम् । स तैर्यथा यथा मुक्तो भेजे हर्ष तथा तथा ॥ २१॥18 खपुण्येनेव संयुक्तः क्षमापश्छन्नधरेण सः। मार्गानभिज्ञ उन्मार्गे पर्यटन्नटवीं ययौ ॥ २२॥ चारुचीराश्वभूषादि। मुक्त्वा भिल्लभयान्नृपः। छत्रभृदवेषमादाय प्रतस्थे तीर्थदिङ्मुखः ॥ २३ ॥ अथैणः पश्यतस्तस्य नश्यन्नेको भयाकुलः। निकुञ्जमविशद वायुवेग उत्प्लत्य पक्षिवत् ॥ २४ ॥ दृकपथातीतसारङ्गः किरातः कश्चिदागतः । मृगपृष्ठे धनुर्धन्वन हंसराजमभाषत ॥ २५ ॥ अत्र पत्रचयच्छन्ने देशे नेक्षे रुरोः पदम् । कागादेणः स मद्भक्ष्य है। दययेश ममादिश ॥ २६ ॥ उक्ते मृगवधः सत्येऽन्यथोक्ते तु मृषोदितम् । बुद्ध्या तद्विप्रतार्योऽयमिति ध्यात्वा नृपोऽवदत् ॥ २७ ॥ पृच्छसि मत्स्वरूपं मां भ्रष्टो मार्गादिहागमम् । व्याधोऽभ्यधादरे मूढ वद कागात् कुरङ्गकः ॥ २८ ॥ नृपो जजल्प मन्नामधेयं हंस इति स्फुटम् । उच्चैमंगयुराचष्टे मार्ग वद् मृगस्य मे ॥ २९॥ मम राजपुरीस्थानं जगतीशो जगाविति । भिल्लोऽप्यधात्क्रुधारेऽन्यत्पृच्छयसेऽन्यत् प्रजल्पसि ॥ ३०॥ धराधीशोऽभ्यधा द् वीरवीरोऽहं क्षत्रियोत्तमः। प्रोच्चैयाधस्ततःप्रोचे भो महावधीरोऽसि किम् ॥३१॥राजोचे वद मे मार्ग यामि लखस्थानकं यतः । व्याधोऽभ्यधाच वाधिर्यव्याधिर्यः सोऽस्तु ते चिरम् ॥ ३२॥ ततो मृगनिराशोऽगान्मृगयुः स । कायथागतम् । वाचा विशारदैः को हि वंच्यते नहि बालिशः ॥३३॥ मोचयित्वा मृगं वाचोयुक्त्या कारुण्य |शेवधिः । भूकान्तः सुकृताक्रान्तःप्राचलच्छनकै पुरः॥३४॥ एककं यतिमायान्तं यतमानं पुरो नृपः। वीक्ष्य १८ चैत्यव.
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy