________________
चैत्यवन्दन- ॥३॥ यः सत्यवादताम्बूलं पांचसौगन्धिकं सुधीः । प्राणान्तेऽपि न तत्याज निजास्यांभोजकोटरात् ॥४॥कुलकवृत्तिः
सुहृदां सुरशाखीव यमदण्ड इव द्विषाम् । यद्दोदडो यशोलक्ष्म्याकर्षदण्ड इवाबभौ ॥ ५॥ रत्नशृंगाचले ॥१०२॥
मासगम्ये पूर्वजकारिते । चैत्ये चैत्रमहेऽचालीत्सोऽथ नन्तुं जिनादिमम् ॥ ६॥ हयडूषारवात्यंतवाचालितदिगन्तरः । गर्जद्गजघटाघोषभीषिताशेषशात्रवः॥७॥ चश्चच्चंद्रकराकारचारुचालितचामरः। ध्रियमाणसितच्छन्त्र आरूढजयकुंजरः॥८॥ स तदाभान्महीनाथः सनाथः सर्वसैनिकैः। श्रीमन्नन्दीश्वरे गच्छन् साक्षादिव दिवस्पतिः॥९॥ त्रिभिः विशेषकम् , अर्धवर्त्मनि संप्राप्तं तं हंसं जवनाभिदः । चरः पश्चात्समागत्यानम्य चैवं व्यजिज्ञपत् ॥१०॥ निर्याते त्वयि यात्रार्थ तद्दिनाद्दशमे दिने । सीमालोऽर्जुनभूपालस्तत्पुर्यां शत्रुरागमत् ॥११॥
युध्यमानांस्खकान् भटान् हत्वा त्यक्त्वा च नश्यतः । भांडागारगजाश्वादि त्वद्राज्यं सोऽग्रहीत्समम् ॥ १२॥ है पुरे भयातुरे कृत्स्ने निःकृत्रिमपराक्रमः । त्वत्सिंहासन आसीनः स खाज्ञां संन्यवेशयत् ॥१३॥ त्वन्मंत्रिणा
सुमित्रेण निलीनेन परालये। अहं त्वयि नियुक्तोऽतो यदुक्तं तद्विधीयताम् ॥१४॥ इत्युक्ते तेन राज्ञोऽने भटाः प्रोचुवेलोत्कटाः। वलामहे महीनाथ कः स्फुरेत्वत्पुरे परः ॥१५॥ हृष्टस्तान् भूपतिः माह पुंसां स्युःपूर्वकमंतः। संपदो विपदो वापि मुच्छोको तत्कृतौ हि कौ ॥ १६॥ पुण्यप्राप्यं विमुश्चैनं जिनयात्रामहोत्सवम् । ॥१०२॥ सुखलभ्याय राज्याय युक्तं नैतर्हि धावनम् ॥ १७॥ असमाप्याहतो यात्रांबले नाहं कदाचन । आरब्धकायेहानं हि विनरधमचेष्टितम् ॥१८॥ इत्युक्त्वा भूपतिर्वाहवाहनं प्रैषयत्पुरः । विवेकी कश्चिदौचित्याच्याव्यते