SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन॥ ४१ ॥ | स्यात् कुतो भयम् । पूर्वानुभूतमेतर्हि स्मृतमित्थं जगाद सः ॥ ११ ॥ कथमित्यभयेनोक्तं शिवसाधुरवोचत । धनधान्यजनाकीर्णा जज्ञेऽवंती महापुरी ॥ १२ ॥ तत्र निःखौ वणिकपुत्रावभूतां प्रीतिमत्तमौ । शिवदत्तशिवाभिख्यौ भ्रातरौ शीलशालिनौ ॥ १३ ॥ जग्मतुस्तौ खार्जनायान्यदा सौराष्ट्रमण्डले । कालेनार्जि घनं वित्तं ताभ्यां क्लेशेन तत्र च ॥ १४ ॥ निक्षिप्य नकुले वित्तं कव्यां बध्वा च तं पथि । वारकेण वहन्तौ तौ चेलतुः स्वं पुरं प्रति ।। १५ ।। उभयोर्यस्य पार्श्वे तद्वित्तं स ध्यातवानदः । मारयामि द्वितीयं चेत् तदेदं स्यान्ममाखिलम् | ॥ १६ ॥ कुर्वन्तौ तावसद्भावमवन्तीनगरी बहिः । शिप्रातीरे समायातौ तदासीत् तच्छिवान्तिके ॥ १७ ॥ ततो दध्यौ शिवश्चित्ते धिगिदं द्रविणं प्रति । यत्कृते दुष्टभावोऽभूदीहर मे सोदरं प्रति ॥ १८ ॥ छोटयित्वा ततः कट्या नकुलं दोषसंकुलम् । निचिक्षेप महाशोणे मत्स्यकच्छपपूरिते ॥ १९ ॥ तद् दृष्ट्वा शिवदत्तोऽवक शिव भो नकुलस्त्वया । क्लेशार्जितधनाकीर्णः शोणेऽस्मिन् किं निचिक्षिपे ॥ २० ॥ शिवोऽवादीत् ततो भ्रातर्नकुलं विभ्रतो मम । त्वयि प्राणाधिके बन्धौ मानसं पापकार्यभूत् ॥ २१ ॥ शिवदत्तोऽभ्यधात् सौम्य साधु चक्रे त्वया ह्यदः । निक्षेप्सीर्नकुलं यच वारिपूर्णे महाहृदे ॥ २२ ॥ त्वद्वद्धि मेऽपि चेतोऽभूद् दुष्टं नकुलधारिणः । अत एव धनं प्राहुर्मलिनं मुनिपुंगवाः ॥ २३ ॥ नकुलोऽगालि मत्स्येन पतन् वारिणि दैवतः । विक्रीयमाणं मत्स्यं तमाददे च शिवखसा ॥ २४ ॥ ततो महानसे गत्वा प्राघूर्णाय तयोः स्वसा । तं मत्स्यमच्छिदत् तस्मान्नकुलः | सहसापतत् ॥ २५ ॥ संगोपितस्तया खाङ्के नकुलः षाखरेण तम् । विदित्वा भ्रातृजायाऽवक ननान्दः प्रापि किं त्वया । कुलकवृदिः ॥ ४१ ॥
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy