________________
&ापश्चात् तत्क्षणान्मृत्युमाप सः॥९६॥ तस्मिन् मृतेऽथ तत्पुत्रा नृपाच्छेषं ययाचिरे । राज्ञोचे यस्य दातव्यं ।
स मृतो व्रजतालयम् ॥ ९७ ॥ मृत्वा श्रेष्ठी मणिकारस्तत्रैवाजनि वानरः । भ्रमन्निजगृहं दृष्ट्वा जातिस्मृतिमुपाययौ ॥ ९८॥ मूर्छानिमीलिताक्षः स पतितो भुवि तत्सुतैः । कृतोपचारः स्वास्थः सन्नक्षराण्यलिखद् यथा ॥ १९॥ सोऽहं युघ्नत्पिता मृत्वाऽभवमत्रैव वानरः । ब्रूथ पुत्रा नृपाल्लब्धं शेषं खं नेति तेऽभ्यधुः ॥ ७० ॥ तच्छ्रुत्वा वानरः क्रुद्धो देव्या हारं ललौ छलात् । ददौ च सौवपुत्रेभ्यस्ततोऽभूचेल्लणाकुला ॥ १ ॥ देवीप्रोचे नृपं हारं गतं नाथ निभालय । सोऽन्वेषितश्च सर्वत्र न लेभे कापि पुरुषैः ॥२॥ ततो राजाऽभयं स्माह चेल्लणाहारमर्पय । प्रेक्ष्य सप्तदिनीमध्ये चौरदण्डोऽन्यथा तव ॥ ३॥ एवमुक्तोऽभयो नित्यं चतुष्कत्रिकचत्वरे । हारं गवेषयामास न लेभे कापि तं पुनः ॥ ४॥ सप्तमाहि निशीथिन्यां ततः श्रेणिकनन्दनः! गत्वा पौषधशालान्तःप्रपेदे पौषधव्रतम् ॥५॥ तस्यां सुस्थितसूरिः शिवसुव्रतधनयोनकर्षियुतः । जिनकल्पग्रहणार्थ वसती वसति स्म वशिराजः ॥ ६॥ संसारोद्विग्नचित्तः स तुलनापञ्चकोद्यतःकायोत्सर्ग व्यधाद् वीरो रात्री वसति सन्निधौ ॥ ७॥ मणिकारसुतीतैस्तस्यां रात्रौ ददेऽथ सः । हारश्छन्नं वानरायान्धकारोद्योतकारकः ॥८॥ उपाश्रयबहिः स्थानोः कण्ठे सुस्थितसद्गुरोः। वानरेण दिशां वीक्ष्य हारो न्यक्षेपि तत्क्षणात् ॥९॥ यामिन्याः प्रथमे यामेऽतीते शिवमुनिर्गुरुम् । उपासितुं समायातो हारकण्ठं तमैक्षत ॥१०॥ स्थित्वा विभ्यत् क्षणं तत्र वसत्यन्तर्विशन्मुनिः । क्षुब्धो नैषेधिकीस्थाने भयमित्यब्रवीन्मुहुः ॥११॥ साधुः पृष्टोऽभयेनैवं भवतां