________________
चैत्यवन्दन- ते सिग्धं निविग्धं पाविति धुवं सिवं सुहयं ॥ २६॥ अथ सम्यक्त्वांगीकारे सम्यग्दृष्टिश्राद्धो यानि धर्मकृत्या
धमकृत्या-कुलकवृचिः नि यावज्जीवं यानि च षण्मासी यावन्निश्चयेन करोति तानि सूत्रकारोऽभिधित्सुकामः प्रथमं यावज्जीवाभिग्रहांदगीकारं दर्शयति । चियवंदणं तिकालं सकत्थएणवि सया काहं । सकलत्रैलोक्यपूज्यपादारविंदानां देवाधि
देवानां श्रीतीर्थकरदेवानां भवग्रीष्मसंतापसंतप्तजंतुजातनिर्वृतिचंदनं परमपदपुरप्रस्थासु भविकलोकपथिकप्रवरस्पंदनं श्रीचैत्यवंदनं त्रिकालं प्रभातमध्यान्हसंध्यारूपेषु त्रिषु कालेषु शक्रस्तवेनापि सर्वदा सदा यावज्जीवं करिप्यामि, अहं सम्यक्त्वग्राहीश्राद्धः सूत्रकारणानेन गाथार्द्धन श्रावकस्य त्रिकालं चैत्यवंदनाभिग्रहो यावज्जीवं प्रथमोऽदर्शि । इदानीं सुश्रावकस्य षण्मासिकाभिग्रहांगीकारमाह-॥९॥ संपुन्नं चियवंदण, दोवाराओ करेमिछम्मासं । अहसयं परिमिट्ठीण, सायरं तह गुणिस्सामि ॥१॥” संपूर्णमित्यक्षरपदबिंदुमात्रालापकोपेतचैत्यवंदनसूत्रभणनपरिपूर्णा चैत्यवंदनां द्विवारं प्रभाते संध्यायां च सम्यक्त्वप्रतिपत्तिदिनादारभ्य षण्मासीं| यावत्करोमीति प्रतिपत्तव्यम् । इह जिनशासने हि श्रुतधरैः सिद्धांते चैत्यवंदना जघन्यमध्यमोत्कृष्टभेदात्रिधा प्रत्यपादि। तद्यथा-"नवकारेण जहन्ना, दंडगथुइजमलभिमानेया। संपुन्ना उकोसा विहिजुत्तावदणा होई !॥१॥" तत्र परित्यक्तान्य सकलगृहव्यापारः श्रीजैनधर्मकर्पूरवासितसप्तधातुहर्षप्रकर्षसंजातरोमांचकंचुकिताङ्ग:-संव
॥६२॥ गनिर्वेदपीयूषप्रवाहपूरितमानसः श्रावकः, श्रीदेवगृहे नेषेधिकीत्रयकरणपूर्व प्रविश्य यथास्थानं दशत्रिकाणि] सत्यापयन् संपत्समन्वितः तत्र सूत्रालापकान्मधुरवरेणोच्चारयन् जिनविन्यस्तदृष्टिः पदे पदे चैत्यवन्दनसूत्रार्थ
ACCOMCGMCNMMCAMSAGAR