________________
:
चैत्यवन्दन
सद्रिसमापीय मक्षिकाः। यद्वमन्ति मधुच्छिष्टं, तदश्नन्ति न धार्मिकाः॥३॥ अप्यौषधकृते जग्धं मधु श्वभ्रनिबन्ध-18
नम् । भक्षितःप्राणनाशाय, कालकूटकणोऽपि हि॥४॥ मधुनोऽपि हि माधुर्यमबुधैरहहोच्यते । आखाद्यते यदा॥८॥ वादाचिरं नरकवेदना ॥५॥” तथा स्मृतावपि मधुभक्षणं महापातकहेतुकं भण्यते-"ग्रामाणां सप्तके दग्धे,
यद्भवेत्सर्वदा नृणाम् । पापं तदेव निर्दिष्टं, भक्षिते मधुनः कणे ॥६॥” अतः स्वसमयपरसमयविरुद्धं विवेकि-8
भिः कालकूटकण इव मधु दूरतस्त्याज्यम् ॥ तथा चतुर्थी विकृतिर्नवनीतं-तकाद बहिर्भूतम् , अनन्तसंमूर्छमजसन्तुजातव्याप्तं चिरकालावस्थाने च नवोत्पन्नकृमिकुलसङ्कुल न भक्षणीयम् , औषधकृतेऽपि न व्यापारणीयम् ,
अनेकदिवससत्कं मेलयित्वा घृतकृते न तापनीयम्, शास्त्रान्तरेऽप्युक्तम्-"अन्तर्मुहूर्तात्परतः, सुसूक्ष्मा जन्तुराशयः । यत्र मूर्छन्ति तन्नाद्यं, नवनीतं विवेकिभिः॥१॥ एकस्यापि हि जीवस्य हिंसने किमचं भवेत् । जन्तुजातमयं तत्को नवनीतं निषेवते ॥२॥" तथाऽप्कायजीवपिण्डमयं हिममपि जीवरक्षाबद्धमनसा श्रमणोपासकेन न भोक्तव्यम् , तथा विषमपि वपरपरासुताविधाननिदानत्वात्, मंत्रोपहतवीर्यमपि उदरान्तर्वतिगण्डो-| लकादिजीवविघातहेतुत्वान्मरणसमये महामोहोत्पादकत्वाच जिनवचनप्रदीपकलिकाप्रकाशितहिताहितवस्तुविचारः सुश्रावकः कथमपिन भक्षयति, करका ये मेघवृष्टौ सत्यांशीतकालादिषुस्त्यानीभूताऽप्कायमया:पतन्ति ते विवेकिना न भोक्तव्याः। तथा सर्वा मृत्तिका दर्दुरादिपंचेन्द्रियजीवोत्पत्तिनिमित्तत्वात् , उपलक्षणत्वात्खडिका धात्वादयश्च पृथ्वीकायजीवात्मकत्वादामाश्रयादिदोषजनकत्वादाहतमतकाचकर्पूरपूरवासितमतिकेन श्राव
॥८० ॥