SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ यममूर्त्यन्तरं किल ॥ ४० ॥ त्रिभिः कुलकम् ॥ सर्वत्र मृन्मयीश्चल्लीर्जानन् स पललंपटः । लकुटं विकटक्रोधो, वसुदेवाय मुक्तवान् ॥४१॥ लकुटं वंचयित्वा तं, कठोरं कण्ठकन्दले । दम्भोलिदेश्यया मुष्ट्या, निजघान यदूद्वहः ॥ ४२॥ मुष्टिप्रहारतान्तात्मा, प्रोच्चै रुष्ट इवारटन् । मुमोच मुष्टिघातान्स, वसुदेव जिघांसया ॥ ४३ ॥ तन्मुष्टिघातसंघातं, वंचयन रचयन् धृतिम् । प्रहारजर्जरं चक्रे, वैरिणं वीरकुंजरः॥४४॥ एवं तयोर्मुष्टियुद्धे वर्ध-3 माने समन्ततः । धडद्धडित्यकंपिष्ट भूपीठं पाददुधरैः ॥४५॥ नेत्रान्धकरणैर्मुष्टिघातवातैररुन्तुदैः । दाशाहळधित|स्सोऽथ, बहिर्देवकुलादगात् ॥४६॥ छिन्नमूल इवोर्वीरुट्, लूनपक्ष इवाण्डजः। ऊर्ध्वं स्थातुमपर्याप्तः, पृथ्वीपीठे पपात सः ॥४७॥ दुष्पापजम्बालमलीमसस्य, किमस्य सङ्गेन दुरात्मनो मे। इतीव सोऽमुच्यत जीवितेन, प्राघूर्णिकोऽभूत्कुगतेश्च सद्यः ॥ ४८ ॥ राज्यच्युतिप्रमुखमैहिककष्टजालं, पारत्रिकं च नरकावटपातलक्ष्म । सौदासनामकुमरस्य पलादनाद्रोः, श्रुत्वा पलं त्यजत तद्विषवत्सकर्णाः॥४९॥इति सोदासराजकुमारकथा समाप्ता। तृतीया विकृतिमधु, क्षुद्रमक्षिकालक्षपीतकुसुमरसवमनोद्भवं लालावज्जुगुप्सनीयं तद्बर्णनवोत्पन्नजन्तुजातसमाकुलम्, आपातमधुरमपि प्रभूतजन्तुविनाशकारित्वेन नारकादिकुगतिदुःखदायकत्वाद्विपाकदारुणं विवे-16 कवता श्रावकेणौषधादिकारणकलापसद्भावेऽपि विषवन्न भक्षणीयम् । शास्त्रान्तरेऽपि चानेकदोषकलुषं मधुगीयते, तथाहि-"अनेकजन्तुसंघातनिघातनसमुद्भवम् । जुगुप्सनीयं लालावत्, कः (वा) खादयतिमाक्षिकम् ॥१॥ भक्षयन् माक्षिकं क्षुद्रजन्तुलक्षक्षयोद्भवम् । स्तोकजन्तुनिहन्तृभ्यःसौनिकेभ्योऽतिरिच्यते ॥२॥ एकैककुसुमक्रोडा CACASASUSASUSREISLISAS
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy