SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ चत्यवन्दन ॥७९॥ पुमांसाशनमांसलः। अधिष्ठितोऽथ भूतेन, कोऽमुंचेद्योग्यमाश्रयम् ॥२४॥ पुंमांसानुदिनग्रासं, चंचद्रोमाञ्च- कलकवृत्तिः सञ्चयः । वदुरिव रेजे स, जटाजटिलविग्रहः ॥ २५॥ नृवशाभ्यङ्गसंसंगरंगदुर्गन्धशेवधिः । महाकायो मुक्तवासाः, स राक्षस इवाबभौ ॥२६॥ हस्तन्यस्तमहादण्डश्चण्डदोर्दण्डमण्डलः । चकासामास सोदासः, कीनाश इव भीषणः॥ २७ ॥ प्रविश्य निशि निस्तूंपः, स ग्रामनगरादिषु । आकृष्य मानुषान् याति, क्षमो हन्तुं न कोऽपि तम् ॥२८॥ इतश्च यदुवंशाब्धिसमुल्लासनिशाकरः। विद्याभृद्भूमिभृद्भरिनारीनिकरकुञ्जरः ॥२९॥ सुचङ्गभाग्यसौभाग्यसुभगं भावुकाङ्गकः। दशा) दशमो जज्ञे, वसुदेवाभिधानतः ॥३०॥ प्राच्यपुण्यसहायोऽसौ, हिण्डमानोऽवनीतले । तिलवस्त्वभिधं ग्राममाजगाम निशागमे ॥३१॥ तदैव संवृतं द्वारं ग्रामस्य ग्रामपूरुषैः । मध्येप्रवेष्टुकामस्तान् , जगाद यदुपुङ्गवः ॥ ३२॥ वैदेशिको ब्राह्मणोऽहं, पथि श्रान्तो बुभुक्षितः समुद्घाटयत द्वारं, मत्कृते कृतिनस्ततः ॥ ३३ ॥ ऊचुस्ते तं नरादस्य सोदासस्य भयाद्वयम् । द्वारं नोद्घाटयिष्यामो, गच्छान्यत्र यथारुचि ॥३४॥ तान्नरान्निष्ठुरान् ज्ञात्वा, व्यावृत्त्यानकदुन्दुभिः। द्वारं संवृत्य सुष्वाप, क्वचिदायतने बहिः॥३५॥ अथाजगाम सोदासः, कपाटौ कुट्टयन भृशम् । उच्चैःवरेण प्रोचे च, द्वारमुद्घाटयाध्वग ? ॥ ३६ ॥ वसुदेवोऽव|दन मा मे निद्राविद्रावणं कुरु । स माह रोषपोषेण, मारयिष्यामि रेऽध्वग ? ॥ ३७॥ द्वारमुद्घाटयामास, तत |॥ ७९ ॥ आनकदुन्दुभिः । प्रेक्षाश्चक्रे सुदुष्प्रेक्षं तं राक्षसमिवाभयः ॥ ३८॥ कूर्चलीभूतसर्वाङ्गं, रोमस्तोमप्रवृद्धितः । धातकीगण्डशैलाभं, शवरक्ताङ्गरागतः ॥ ३९ ॥ दन्तः फालतुलैः कोलमिव लोकभयंकरम् । नग्नं महावपुष्मंतं,
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy