SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ दृष्टवान् ॥ ८॥ वङ्कचूलस्तयाऽदर्शि, भणितश्च कलखरम् । कस्त्वं सुधीरधौरेयः, सोऽभ्यधात्तां प्रतिस्फुटम् ॥५॥ चौरोऽहं वङ्कचूलाख्यो, दुःस्थस्तोमशिरोमणिः । तवाभरणभारस्य, हरणार्थमिहागमम् ॥१०॥ देव्यूचे भद्र ? य-3 येवं, तर्हि निमोहि मद्वचः। मां प्रियां प्रतिपद्यख, साक्षाल्लक्ष्मीमिवोन्मुखीम् ॥११॥ येन कल्पलतेवाह, सापूरयामि तवेप्सितम् । अमीषां चारुरत्नानां, भूषणानां भव प्रभुः ॥ १२॥ विस्मितः स्त्रीचरित्रेण, वङ्कचूलोऽप्यचिन्तयत् । कौटिल्यकुलधामभ्यः, कामिनीभ्यो नमोनमः ॥१३॥ यत्प्रसादादसौ दिव्यवस्त्रालङ्कारधारिणी । सौधे विमानदेशीये, सुखं देवीव तिष्ठति ॥१४॥ तस्मिन्नपि विरक्तासौ, हाहा कामयतेऽद्य माम् । अतः स्थाने न मुह्यंति, महिलासु महत्तमाः॥१५॥ स्मृतिगोचरसंचारिव्रततत्त्वं विमृश्य सः। पप्रच्छ तां पद्दराज्ञी, राज्ञी त्वमथवाऽपरा ॥ १६॥ देव्यूचेऽहं पट्टदेवी, नृपतेरतिवल्लभा । मया रूपस्मयान्मत्तचित्तयाऽकोपि भूपतिः॥१७॥ उवाच वङ्कचुलोऽथ, यद्येवं तर्हि निश्चितम्। देवि? मातेव पूज्याऽसि, न भोग्याऽसि प्रियेव मे॥१८॥ यत उक्तम्"राजपत्नी गुरोःपत्नी, मित्रपत्नी तथैव च । पत्नीमाता खमाता च पञ्चैता मातरः स्मृताः॥ १९॥ सोचे भोगान्महाभाग, भोक्तुं नेच्छसि चेन्मया। मरिष्यसि ध्रुवं मूर्ख, चिंतये खोत्तरं हृदि ॥२०॥ इतश्च जगतीने-18 ताऽधस्तनावनिसंस्थितः। तयोनिखिलमालापं, शुश्राव श्रुतिपाटवात् ॥ २१ ॥ अकामुकममुं ज्ञात्वा, राज्ञी क-| पटपंडिता । कदलीकोमलं कायं, विदार्य नखरैः खरैः ॥ २२॥ पूच्चकार दुराचारा, दुराचारोऽत्र कश्चन । विवेशांतःपुरे पापो, भो! भो! धावत धावत ॥२३॥ युग्मम् । देव्या वचनमाकण्य, दक्षा आरक्षकाःक्षणात् SSSSSSSSSSSSSS १६ चैत्यव.
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy