________________
चत्यवन्दन
॥९
॥
नाटकक्षणम् । तदामी कथयिष्यन्ति रिपुभ्यः पल्लिशून्यताम् ॥ ९३ ॥ ततो नाव्यक्षणं दातुं, त्वन्नेपथ्यमहं| कुलकवृत्तिः व्यधाम् । प्रस्तावस्यानुसारेण, चेष्टन्ते हि मनीषिणः॥ ९४ ॥ तेभ्यो यथोचितं दानं, दत्त्वात्यक्तन्वेषिका । अहं निद्रालसालस्यात्सुष्वाप भ्रातृजायया ॥ ९५॥ दयौ मये मनः सौधं, वङ्कचूलस्ततः सुधीः। धन्यो धर्मगुरुमै यो, नियमानीदृशानदात्॥९॥ काहं क मे सगर्भावा, जीविष्याव महापदैः। आचार्यो यदि नादास्यच्छुभौदर्कानभिग्रहान् ॥९७॥ ततो मृतपरीवारः, पल्लीशः स खसृप्रियः। श्रिया जगति विख्यातां, जगामोज्जयनी पुरीम् ॥ ९८॥ कस्यापि वणिजो गेहे, स्थापयित्वा स्वसृप्रिये । स्वयं चकार चौर्यार्थ, सधनायन्नुपक्रमम् ॥ ९९॥ आरक्षकैरलक्ष्योऽसौ, दक्षत्वान्निशि पर्यटन् । लक्ष्मीवतामागारेषु, नित्यं खात्राण्यपातयत् ॥ १०॥ अन्यदा चिंतयामास, किमेतैलुण्ठितैर्जनैः, विशामि वसुधाधीशसौधे साहसमाश्रितः॥१०१॥ रत्नानि सुमहा_णि, स्वर्णदुर्वर्णसंचयम् । हृत्वा भवाम्यस्मि सदा, येन दारियवर्जितः ॥२॥ युग्मम् ॥ यतः-"जइ किजइ चोरी, किमइतो लुटिजइ राओ । इकु असग्गलुधणु हवइ अनुपरिपुरिभडवाउ ॥३॥” अत्रांतरे मेघराजराजधानी तपात्ययः। प्रावर्तत घनस्थाननृत्यत्केकिकदम्बकः॥४॥मध्येऽरण्यानि गत्वाऽथ, वङ्कचूलो महाबलाम् । गोधामाधाय सकलाः, शिक्षयामास सत्कलाः ॥५॥ गोधापुच्छछटाबद्धरज्वालम्बनतः क्षणात् । अध्यारुरोह रासौधं, गवाक्षविवरेण सः॥६॥ देदीप्यमानरत्नौघकान्तिकृप्तदिनभ्रमम् । विलासवेश्मभूनेतुः, स जगामैकसाहसी ॥ ७ ॥ तत्रालङ्कारसाराङ्गी, कल्पपर्यङ्कशायिनीम् । नवोत्पन्नामिव खत्री, राट्कान्तामेष