SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ | प्रतिज्ञातं निजव्रतम् ॥ ७६ ॥ आखाद्य खेच्छया ते तु, विषद्रुमफलावलीम् । वृक्षछायासु सुषुपुघूर्णमानविलोचनाः ॥ ७७ ॥ वङ्कचूलोऽपि सुष्वाप, मार्गश्रमसमाकुलः । निशीथेऽथ जजागार, सत्तमा हि सुजागराः ॥७८॥ असौ जागरयामास, भृत्यं विश्रम्भभाजनम् । वभाण च द्रुतं भद्रोत्थापयेभिल्लसन्ततिम् ॥ ७९ ॥ खखामिशालदाक्षिण्यातू, क्षुधितेनापि तेन तु । नाभक्ष्यन्त फलान्युचैरुत्तस्थौ तेन स क्षणात् ॥ ८० ॥ नोत्तस्थुरपरेभिल्लास्तेन जागरिता अपि । सोऽथाऽऽख्यहङ्कचूलाय, स्वामिन्नेते मृता इति ॥ ८१ ॥ सोऽथालोक्याज्ञातनामफलादनफलं खयम् । खत्रतेषु दृढो बाढं, पल्लीं तेन युतो ययौ ॥ ८२ ॥ प्रविवेश निशीथिन्यां, निजं धाम स मानभूः । ददर्श कुश्चिकाद्वाराज्वलन्तं दीपमोकसि ॥ ८३ ॥ परपुंसा समं सौख्यं सुषुप्सां दयितां तथा । कंपिष्ठोष्ठदलः कोपाच्चिन्तयामासिवांस्ततः ॥ ८४ ॥ युगलम् । चपलां चञ्चलखान्तां, धिकान्तां दुष्टचेतसम् । कान्ते कामोपमानेऽपि, या काङ्क्षति परं नरम् ॥ ८५ ॥ मारयामि ततः पापं, प्रथमं दुष्टपूरुषम् । इति निश्चित्य निभृतपदं गेहान्तराविशत् ॥ ८६ ॥ कोशान्निष्कासयामास, स खङ्गं शस्त्रकौशली । सस्माराथ स्वनियम, प्राणेभ्योऽपि भृशं प्रियम् ॥ ८७ ॥ अपासार्षीत्सप्तपदीमुदसूर्यतवेगतः । करवालं करालंस, | यमजिह्वासहोदरम् ॥ ८८ ॥ द्वारपत्रेऽथ लग्नोऽसिस्तज्झङ्कारारवश्रुतेः । वङ्कचूला जजागारा कृत्यात्तं रक्षितुं - किल ॥ ८९ ॥ जीवताद्वङ्कचूलो मे, सोदरः स्नेहमेदुरः । इत्यालपन्त्युदस्थाच्चाज्ञासीत्सोऽपि खरेण ताम् ॥ ९० ॥ सोऽपृच्छद्भगिनीं भद्रे ! पुंनेपथ्यं कुतस्तव । मद्गृहिण्या समं खाप एकशय्यातले तथा ॥ ९९ ॥ सा बभाणभ्रातरद्य, नटा नाट्यचिकीर्षया । आगमन्नाटकं कर्तुं ययाचेऽवसरश्च तैः ॥९२॥ मयाऽचिन्ति न दास्ये चेदमीभ्यो ++++++++
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy