SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन-गृहिणीगृहबान्धवान् ॥७२॥ पूर्वानुभूतमेतच मया स्मृत्वा महाभयम् । प्रोचे नैषेधिकीस्थाने महाभयमितिकुलकवृत्तिः भ्रमात् ॥७३॥ इति द्वितीयं सुव्रतमुनिकथानकम् ॥ ॥४३॥ तृतीयेऽथ निशायामे धनदाख्यो मुनिर्गुरुम् । उपास्य पौषधागारं विशन्नतिभयं जगौ ॥७४ ॥ इत्थं श्रुत्वाऽभयोऽवोचत् कुतस्तेऽस्ति भयं मुने । पूर्वानुभूतमेतन्मे इत्यूचे धनदो मुनिः ॥७५ ॥ ऊचेऽभयोऽथ तं भीतिरनुभूता कथम् त्वया । बभाषे धनदः साधुः शृणु श्राद्धशिरोमणे ॥७६ ॥ अवन्तीनिकटग्रामे क्षत्रियः कुलपुत्रकः । अहमास पुरा शौर्यविक्रमाक्रान्तशात्रवः ॥७७॥ अवन्तिपुरिवास्तव्या महिष्टकुलसंभवा । परिणिन्ये मया कन्या यौवनं समुपेयुषा ॥ ७८॥ अन्यदा तां समानेतुं खङ्गहस्तोऽहमागमम् । अवन्तीबहिरुद्याने इमशानावनिसन्निधौ ॥७९॥ तत्रापश्यं वधूमेकामुत्तरीयावृताननाम् । रुदन्तीं करुणारावं शलाविद्धनरा- न्तिके ॥ ८०॥ मया दयाचित्तेन किं रोदिषीति सोदिता । गद्गदगीझरनेत्रा प्रोचेऽदो मम सन्मुखम् ॥ ८१ ॥ जो य न दुक्खं पत्तो जो य न दुक्खस्स निग्गहे समत्थो । जो न दुहिए दुहिओ कह तस्स कहिजए दुक्खं ॥ ८२॥ इत्येवं तदनः श्रुत्वा कृपामासेदुषा मया। प्रोचे भद्रे ममाप्येका गाथामाकपणेयेमिकाम् ॥ ८३ ॥ अहयं दुक्खंपत्तो अयं दुक्खस्स निग्गहे समत्थो । अयं दुहिए दुहिओ ता मज्झ कहिजए दुक्ख ॥ ८४ ॥ ॥४३॥ ४ायद्येवं शृणु तहीदं योऽयं ना शुलिकोपरि। स मे भर्ताऽद्य रुष्टेन राज्ञा प्रापि दशामिमाम् ॥८५॥ जीवत्येष प्रियोऽ द्याप्येतन्निमित्तं तु भोजनम् । लात्वा गां न भोजयितुं शक्नोम्येनं कथंचन ॥८६॥ ततोऽहं निष्फलारम्भा लग्ना
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy