________________
पूत्कारयिष्यसि । तदा छेत्स्यामि खड़ेनामुना ते मस्तकंध्रवम् ॥५८॥ युग्मम् ॥ भणित्वेत्यग्रतः कृत्वाऽहं तां खग्रा
मसंमुखम् । प्रतस्थे त्वरितं दूरं गते मयि निशा ययौ ॥ ५९॥ प्रभाते पृष्टभीत्याहं प्राविशं वंशजालकम् । तत्र हपृष्टे भटैर्युक्तः पल्लीनाथः समाययौ ॥६०॥ विज्ञायि तेन मे मार्ग आयान्त्या प्रिययाऽध्वनि । निक्षिप्तवस्त्रख
ण्डौघेरभिज्ञानाय दुष्टया ॥ ११॥ सोऽथ खड्गप्रहारैर्मा जर्जरीकृतविग्रहम् । कीलकैः कीलयामास पञ्चांग्यां पृथिवीतले ॥६२॥ पश्चाद ययौ गृहीत्वा तां पल्ली पल्लीपतितम् । उन्मुक्तजीविताशस्याऽगात् पार्श्वे वानरो मम ॥ ६३ ॥ स बन्धुरिव मां दृष्ट्वा पीडितं कीलितं तदा । मूर्छानिमीलिताक्षः सन् पृथिव्यां दुःखितोऽपतत् ॥६॥ चिरेण चेतनां लब्ध्वा गत्वाऽन्यत्राजगाम सः। औषधीयुगलं लात्वा मां चिकित्सयितुं द्रुतम् ॥६५॥ निःशल्यमेकयौषध्या व्रणमुक्तं द्वितीयया। कृत्वा मां सोऽलिखत् पृथ्व्यां स्वं वक्तुं वर्णमालिकाम् ॥६६॥ त्वदृग्रामे सिद्धकमोख्य आसं वैद्यसुतः पुरा । मृत्वा कर्मवशाजज्ञे सोऽहं वानरपुंगवः॥ ६७॥ मया पूर्वभवोऽज्ञायि जातिस्मृत्या तवेक्षणात् । औषधीयुगलेन त्वं प्रगुणोऽकारि तत्क्षणात् ॥ ६८॥ भूयो मे शृणु वृत्तान्तं कपिनाहं बलीयसा । एकाक्यकारि केनापि लावा यूथं ममाखिलम् ॥ ६९॥ चेत् त्वं यूथपतिं हत्वा यूथनाथं करोषि माम् । तदा मदुपकारस्याऽनृणीभवसि नान्यथा ॥ ७० ॥ कृत्वा तद्वचनं गत्वा छन्नः पल्लीं च तां पुनः। हत्वा आपल्लीपति पत्नीं लात्वाऽहमगमं गृहम् ॥ ७१॥ इत्थं स्त्रीदृष्टचेष्टातो विषयोद्विग्नमानसः। व्रतं जग्राह मुक्त्वाऽहं
वर्णमालिका
सोऽहं वा
त्वं प्रगुण
चैत्यव.८