SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ 28 5- चैत्यवन्दन-निच्छन् खचेतसा ॥४२॥ पल्लीवास्तव्यवृद्धायाः कस्याश्चित् सदने दिनान्। अतिवाह्य बहून् वृद्धा भक्त्याऽभाषिकुलकवृत्तिः मयान्यदा ॥ ४३ ॥ मातः पल्लीपतेःपाचे मम तिष्ठति वल्लभा । तदने ब्रूहि गत्वा त्वं पतिस्तेऽत्र समागमत् ॥४२॥ ॥४४॥ मदुक्तं वृद्धया तस्या अग्रेऽवाचि तयोदितम् । अद्य पल्लीपतिस्तम्यामन्यत्र कापि यास्यति ॥४५॥ त्वमद्यैवात्र मद्भा सहागच्छेर्निशामुखे । तयेति कथिते तस्याः पार्थेऽगां वृद्धया समम् ॥ ४६॥ पल्लीपतिस्तदा गेहादन्यत्र कापि तस्थिवान् । वीक्ष्य मां मुदितेवाऽभूत् सा चादरमदर्शयत् ॥४७॥ मामुपविश्य खट्वायां पल्ली-18 नाथस्य भक्तितः। विधाय पादशोचं मे सोपाविक्षन्मदन्तिके ॥४८॥ अत्रान्तरे कुतोऽप्यगात् पल्लीनाथो गृहान्तराद् । खट्वाया मामधो भागे स्थापयामास सा भयात् ॥४९॥ पल्लीनाथस्य शय्यायामुपविष्टस्य पादयोः। क्षालनं सा विधायैवं वक्तुं प्रववृते पुरः॥५०॥ यद्येति मम भर्त्तात्र तदा तस्य करोषि किम् । त्वामर्पयामि त्वगर्ने मानात् तेनेत्यभाषि सा ॥५१॥ तस्या भृकुटिनिक्षेपाद् भावं विज्ञाय चित्तगम् । पल्लीपतिःपुनःप्रोचे हास्यमेतन्मया कृतम् ॥ ५२ ॥ ममाभिप्राय एषोऽस्ति चेत् तं प्रेक्षे इहागतम् । तदाहं तस्य गृह्णामि त्वचं बन्धन पूर्वकम् ॥ ५३ ॥ सा तन्निशम्य संतुष्टा शय्याधो मामदर्शयत् । वेण्यानिष्कर्ण्य बद्धोऽहं स्तम्भे तेनार्द्रचर्मणा &॥५४॥ तन्नियुक्ता नरा जनुर्यष्टिभिर्मुष्टिभिश्च माम् । सुप्तेषु तेषु मत्पुण्यैराकृष्टःश्वा तदा ययौ ॥५५॥ स लेह- ॥४२॥ बान्धवेनेव शुनाऽखाद्यत बन्धनम् । ततोऽहं मुत्कलीभूतः पावें पल्लीपतेर्ययौ ॥५६ ॥ तस्य खङ्गं गृहीत्वोग्रं निष्काष्योत्थापिता मया । तथा दुष्टा प्रिया पल्लीपतिर्जागर्ति नो यथा ॥ ५७ ॥ प्रोक्ता च खड्गमुत्पाव्य चेत् त्वं
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy