SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ संशोच्य रोदितुम् । दयालुना त्वया पृष्टा स्त्रीणां हि रुदितं बलम् ॥ ८७॥ अतः कृत्वा प्रसादं मे स्कन्धे स्थापय मां निजे । जेमयामि स्वहस्तेन येनाहं प्राणवल्लभम् ॥ ८८॥ गवेषणीयमूर्ध्व न संमुखं मे त्वयाऽनघ । न लज्जामि तव स्कन्धे स्थिताहं येन सुस्थिता ॥ ८९॥ खङ्गं मुक्त्वा महीपृष्ठे स्कन्धे सा स्थापिता मया। शूलिकारोपि तस्यांगं चिच्छेद छुरिकाकरा ॥९० ॥ भूयो भूयोऽप्यमृगबिन्दून् पततः सौवमूर्धनि । कलयन्नपि विश्वस्तः स्थिरस्तस्थौ गिरीन्द्रवत् ॥ ९१ ॥ निर्विण्णेन चिरादूर्व क्षणं प्रैक्षि मया ततः । दृष्टं च चेष्टितं तस्या भीमाया भयहेतुकम् ॥९२॥ निपात्य तां ततः पृथव्यां भयकम्प्रसमाङ्गकः । पूर्वमुक्तमसिं तत्र विस्मार्याऽहं । प्रनष्टवान् ॥ ९३ ॥ वेगेनायान् प्रतोल्यन्तीतोऽहं यावदागमम् । सा तावन्मदसिं लात्वा तत्रायान्मम पृष्ठतः| ॥९४ ॥ तयैकोरु ममाच्छेदि प्रतोलीबाह्य संस्थिता । क्षणात् खड्गप्रहारेण भूरुहैकप्रदेशवत् ॥ ९५॥ तां गृहीत्वा 3 लययौ साऽहं तत्रैव पतितः श्वसन् । द्वारदुर्गा पुरोदीनं व्यलपं करुणखरम् ॥ ९६॥ कुलदेवतयाऽलापि कृपयाहं तदा तया । अस्माकं शाकिनीनां च व्यवस्थैषाऽत्र वर्त्तते ॥९७॥ द्विपदश्चतुःपदो वा प्रतोल्या बहिरस्ति यः। |स तासां यस्तु मध्येऽस्ति प्रतोल्याः स समोहिनः ॥९८॥ अतः प्रतोलीमध्यस्थः पादोऽरक्षि मया तव । तद्बहिःस्थश्च ते पादः शाकिन्याऽघाति दुष्टया ॥९९॥ अहं विज्ञपयामास तत्रस्थां कुलदेवताम् । सेवकखलेते देवि ममांप्रिं प्रगुणीकुरु ॥८००। प्ररुरोह मदीयोऽधिः कुलदेव्या प्रसादतः । अचिन्त्यं देवदेवीनां महिमानं जगुबुधाः ॥१॥ प्रणम्य तां कुलदेवीं गत्वा श्वशुरमन्दिरम् । विलोक्य पिहितं द्वारं छिद्रेरैक्षि मया तदा KRAGAR
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy