________________
चैत्यवन्दन-रस सस्मार त्रिदण्डिकः ॥३३॥ अत्रान्तरे शिवो ध्यो, श्मशानं भूयुपद्रवं । सूचीभेद्योग्रभूच्छाया, कृष्णरात्रिःतालकतिः
भयंकरा ॥ ३४॥ कपाली चैष निस्त्रिंशः, स निस्त्रिंशकरः शवः । एकैकं दारुणं चैतन्नूनं मे वधहेतवे ॥ ३५॥ ॥ ६७॥
सोऽथ भीतः पुनर्नष्टुं, सांप्रतं न तराम्यहं । किं कुर्वे किंब्रुवे चैवं, ध्यायंस्तातवचोऽस्मरत् ॥३६॥ अंतःस्वातं ततः क्षुद्रोपद्रवद्रावकारणम् । शिवः पंचनमस्कारं, शिवश्रीकारमस्मरत ॥ ३७ ॥ क्षणात् कपालिनस्तस्य, क्षुद्रम
प्रभावतः । शवः किंचिच्चलित्वा स, पपातोदस्तमुक्तवत् ॥ ३८॥ तत्पातादात्मनः क्षुण्णं, कपाली कलयं स्तदा । जजाप स पुनः पापः, खमंत्रं स्थिरमानसः॥ ३९॥ जापपूर्ती शवः पूर्ववदत्तस्थौ पपात च । कपाली जातकोऽथ, विषण्णश्च शिवं जगौ ॥४०॥ मंत्रं त्वमपि रे किंचिद्वेत्सि नेत्यभ्यधाच्छिवः । कपाली लोभतोभृय|श्चक्रे जापं स्थिराशयः॥४१॥ अथोत्तस्थौ शवो भूयः, प्राभवन्न शिवं प्रति । सूर्यलोके हि किंदीप, रोचिषां स्यात्प्रभूष्णुता ॥४२॥ तस्यैवाथ शवश्छित्वासिना तेनाक्षिपच्छिरः । चिंत्यते यत्परस्मै हि, तत्वस्मै भवति स्फुटम् ॥४३॥ त्रिदंडिनोऽथ देहः स सुवर्णपुरुषोऽजनि । मणिमंत्रौषधीनां हि, गीयते महिमाद्भुतः॥४४॥ शिवश्चिक्षेप भूम्यंतस्तं हेमपुरुषं ततः। गृहप्राप प्रभाते चागण्यपुण्यरमोदयः॥४५॥ सर्व निवेद्य वृत्तांतं तं राज्ञे
वान॥६७॥ दमितारये । हेमपूरुषमानिन्ये, राजादेशावधामसः ॥४६॥ अंगोपांगैस्ततः कृत्यैःप्रातः प्रातः पुननेवैः । जातेः पुष्पवदेतस्य महेभ्योऽभूच्छिवोऽचिरात ॥४७॥ सिताभ्रशभ्रमुत्तुंग, सौवपुण्यमिवोद्धरं । शिवोऽथ तेन वितेनाऽकारयद्देवमन्दिरं ॥४८॥ निजहृदि मरणांतेप्यापदांचक्रवाले, व्रतमिव परमेष्ठिनीनमस्यामवश्यम् ।