________________
चैत्यवन्दन॥ ५४ ॥
व्यं करंबवटकादिकम् । भोजनार्थं जनाः सर्वे सह निन्युः प्रमद्वराः ॥ ५ ॥ गच्छद्भिस्तैः प्रतोलीस्थ दुर्गाग्रे वटकादिकम् । स्तोकमेकैकशो दत्तं भूर्यभूत् समवायतः ॥ ६ ॥ ततस्तदात्मसाच्चक्रे सर्वं कुसुमपालकः । आहरच्च कणेहत्य जन्मादृष्टमिवाग्रतः ॥ ७ ॥ तदादिक्षन्नृपो भृत्यान् राजवर्त्म विशुद्धये । तच्छुद्धिं ते द्रुतं कृत्वा नृपालाग्रे व्यजिज्ञपत् ॥ ८ ॥ प्रौढपट्टगजारूढस्ततः सान्तः पुरो नृपः । सहस्राम्रवणेऽगच्छत् क्रीडार्थं सपरिच्छदः ॥ ९ ॥ तत्र प्रववृते क्रीडा स पौरस्य महीपतेः । सामरस्यामरेशस्य पारिजातवने यथा ॥ १० ॥ ततः कुसुमपालोऽगाद् | वाटिकायां करण्डकम् । लात्वा तं चम्पकाशोकादिभिः पुष्पैर्बभार च ॥ ११ ॥ ततः सोऽभिपुरं गच्छन्नतुच्छाहारभक्षणात् । राजमार्गस्थितो जज्ञे कायचिन्तासमाकुलः ॥ १२ ॥ विजनं वीक्ष्य तत्रैव पुरीषमुत्ससर्ज सः । पुष्पप्रकरमध्याच्च तदूर्ध्वं भयविह्वलः ॥ १३ ॥ आरक्षकादि कः कश्चिन्माद्राक्षीन्मामिति द्रुतम् । नष्ट्वा तदेश|तोऽग्रेऽगात् सकः कुसुमपालकः ॥ १४॥ क्रीडाक्रीडादथागच्छजनस्तं पुष्पसंचयम् । अजीर्णाहार हिंग्वादिदुर्गन्धं दृष्टवांस्तदा ॥ १५ ॥ तत्र कश्चिद् वसन्नूचे भो भोः पश्यत पश्यत । अयं हिंगुशिवो देवः स्वयंभूर्बहिरुत्थितः ॥ १६ ॥ महातीर्थमिदं भावि महामहिममन्दिरम् । अर्हत्यहमिदं नूनं प्रसूनप्रकरैर्नवैः ॥ १७ ॥ न प्रैक्षि पूर्व| मुद्याने गच्छद्भिरिदमात्मभिः । अधुनैव समुद्भूतं स्वप्रभावादिदं यतः ॥ १८ ॥ इत्युक्तास्तेन ते पौरास्तत्स्व| रूपमविन्दवः । तदुर्ध्वं पुष्पसंघातं चिक्षिपुर्भक्तिपूर्वकम् ॥ १९ ॥ पाश्चात्यैरपि तैस्तत्र प्रवाहाद् विदधे तथा । ततः क्रमेण तस्योर्ध्वं प्रासादो विदधे जनैः ॥ २० ॥ एवमज्ञाततत्त्वैस्तैः पूज्यमानं महादरात् । तत्तीर्थं प्राप
कुलकवृत्तिः
॥ ५४ ॥