________________
++
AARAKHARA
विख्यातिं यथा सर्वदिशाखलम् ॥ २१ ॥ तथायं चैत्यवासोऽप्यतत्त्वज्ञैः परिकल्पितः। सातशीलैर्ययौ रूढिं भस्मकाद्यनुभावतः॥२२॥ इति हिंगुशिवकथानकं संपूर्णम् ॥ ७॥ अत एव श्रीआशापल्या पूर्वसैद्धान्तिकचक्रचूडामणिभिर्वादीन्द्रद्विपदघटाविद्रावणकेशरिभिर्निश्छद्मशुद्धक्रियाकारिभिः श्रीजिनपतिसूरिभिः श्रीप्रद्युनसूरिभिः सहायतनानायतनवादं कुर्वाणैः सकलान्याचार्यचक्रप्रत्यक्षम् औघनियुक्त्यादिसिद्धान्तानुसारेण सविस्तरमायतनं संस्थाप्यानायतनं निराचक्रे, अतोऽनायतनपरिहारे सर्वसाधुभिः सम्यग्दृष्टिश्रावकैश्च यतितव्यम् ॥१०॥ अथ चैत्यवासिनां मिथ्यादृष्टित्वे हेतुमन्येषां दुष्करक्रियाकारिणामपि मिथ्यादृष्टित्वं च प्रतिपादयन् गाथाद्वयमाह
जो उस्सुत्तं भासइ सद्धहइ करेइ कारवे अन्नं । अणुमन्नइ कीरंतं मनसा वायाएकाएणं ॥ १२॥ मिच्छदिट्ठी नियमा सो सुविहियसाहुसावएहिं पि। परिहरणिजो जइंसणे वि तस्सेह पच्छित्तं ॥१३॥3
व्याख्या-यः साधुः श्रावको वा उत्सूत्रं सिद्धान्तविरुद्धं भाषते, मुग्धजनानामग्रे प्ररूपयति । यश्च शृण्वन्नुत्सूत्रं श्रद्धधाति, सत्यमेवैतदिति मनसि धारयति, यश्च करोति सिद्धान्तगीतार्थाचरणा विरुद्ध क्रियाकलाप समाचरतीत्यर्थः, कारयति च 'अन्यम्' अन्यपार्थात् उत्सूत्रं क्रियाकलापं निर्मापयतीत्यर्थः, तथोत्सूत्रं क्रिय-15 |माणं मनसा वचसा कायेन चानुमन्यते प्रधानं क्रियामेषः करोतीतिचिन्तनेन मनसा, शोभनोऽस्य क्रियाकलाप
++NCAKKARAN
चैत्यव. १०