________________
इत्तिय आमगोरसे राजिकाभिः सह निक्षेपरूपं न कुर्यात्, यतो द्विदलानां साङ्गरिकाबबूलादीनां आमगोरससंसर्गे सूक्ष्मजीवोत्पादस्य सिद्धान्ते प्रतिपादितत्वात् । तथाहि-"पालकलहसागो मुग्गयं वामगोरसुम्मीसं । संसज्जएउ अचिरा, तं पिय नियमा हु दोसाय ॥१॥" अतो ये तु मुद्गादिधान्यान्येवामगोरसेन सह वर्जयन्ति, साङ्गरिकाबलमेथिकाशाकादिकं काष्ठद्विदलमित्यभिधाय आमगोरसेन सह मिथ्यादृष्टिवज्जे-12 मयन्ति । तेषामद्विदलान्नभोगेऽर्द्धश्राद्धत्वमेव स्यात्, नहि सिद्धान्ते क्वचिद् द्विदलविषये काष्ठाकाष्ठविभाग-1 |उक्तोऽस्ति, सामान्येनैवामगोरसेन सह द्विदलभोजनस्य निषेधात्, द्विदलधान्यस्याप्यामगोरससंसर्गे त्रसजीवोत्पत्तिः सिद्धान्ते प्रतिपादिताऽस्ति, तथाहि-"जइ मुग्गमासपमुह, विदलं कचंमि गोरसे पडइ । ता| तसजीवोप्पत्ति, भणंति दहिए वि तिदिणुवरि ॥१॥” तथाऽन्यत्राप्युक्तम्-"आमगोरससंपृक्ते द्विदलादिषु ६ जन्तवः। दृष्टाः केवलिभिः सूक्ष्मास्तस्मात्तानि विवर्जयेत् ॥१॥” अतः सुश्रावकेण सामान्येनामगोरसेन सहर धान्यद्विदलं काष्ठद्विदलं च न भोक्तव्यं, द्विदलान्नसंपृक्तहस्तमुखभाजनानि पानीयेन धावित्वा तज्जलं जीवर-2 क्षार्थ मध्ये निपीय च तक्रदध्याद्यामगोरसं ग्राह्यं भोक्तव्यं च, अथ द्विदललक्षणं सामान्येन विवक्षुराहजम्मि य पिलिज्जते, मणयं पि न नेहनिग्गमो हुज्जा। दुन्नियदलाई दीसंति मित्थिगाईण जह लोए॥१८॥ व्याख्या यस्मिन् 'पीड्यमाने' पिष्यमाणे मनामात्रमपि' खल्पमात्रमपि न लेहनिर्गमो भवति, यथा तिल