SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन ॥२५॥ देशादनिच्छन्त्यपि चेल्लणा । स्तन्यदानादिना सूनुं तं सर्पवदपालयत् ॥ ३॥ कान्त्या चन्द्र इवाशोकवनिकायांकुलकत्तिः व्यलोक्यसौ । अशोकचन्द्र इत्याख्याऽस्येति चक्रे महीभुजा ॥४॥ अशोकवनिकामध्ये त्यक्तस्यास्य तदागुलीम् । कनिष्ठां कुर्कुटोऽभक्षत् मृणालदलकोमलाम् ॥ ५॥ तदा रुदतस्तस्यांगुली पूतिप्लुतामपि । भूपोऽक्षिपन्मुखे स्नेहान् न्यवर्त्तत स रोदनात् ॥६॥ रूढवणापि तस्यासीत् सांगुलिः कृणिता ततः। क्रीडद्भिर्वालकैः प्रोचे कृणिकाभिधयाऽथ सः॥७॥ सुतौ हल्लविहल्लाख्यौ क्रमेणाऽसूत चेल्लणा। तेजःश्रीभासुरौ पूर्वा सूर्यचन्द्रमसा-टू साविव ॥ ८॥ कलाकलापकुशलाः कुणिकाद्याः सुतास्त्रयः। मूर्त्ता इव पुरुषार्थाः सदा राज्ञोऽन्वचारिषुः ॥९॥ क्रीडाक्रीडेषु वापीषु नगरोपवनेषु च । त्रयोऽक्रीडन् सोदरास्ते त्रिदशा इव नन्दने ॥१०॥ तातद्विषे कृणिकाय|3 प्राहिणोद् गुडमोदकान् । सदा हल्लविहल्लाभ्यां चेल्लणा खण्डमोदकान् ॥११॥ प्रागभवीयनिदानस्य परिपाकातु | कृणिकः । अमंस्त श्रेणिको मह्यं प्रेषयद् गुडमोदकान् ॥१२॥ गुणश्च वयसा तुल्यां कुलीनां राज्यकन्यकाम् ।। पद्मावत्यभिधां राजा कूणिकं पर्यणायत ॥ १३ ॥ बभूव श्रेणिकस्याथ धारिणी सहचारिणी। रणद्गुणगणातोद्यनादापूरिन दिगमुग्खा ॥ १४ ॥ तस्याः कुक्षाववातारीच्छरीरी कोऽपि पुण्यवान् । शुक्लोज्वलमहाकारगजखमो-16 18|॥२५॥ पसूचितः ॥१५॥ गर्भानुभावतो देव्या दोहदः समपद्यत । जंजन्यमानपर्यन्यवृष्टिभ्रमणलक्षणः ॥१६॥ धारिणी धरणीशाय रहसि व्याजहार तम् । आदिदेशाभयं सोऽपि सहि तत्साध्यसाधकः ॥ १७॥ सुधान्धसं समाराध्य पूरयामास शुद्धधीः । अभयो दोहदं देव्या दुःसाध्यं महतां हि किम् ॥ १८॥ कायकान्त्या तिरस्कु 16
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy