________________
कार्वन् प्रदीपान सूतिसद्मनः । श्रिया प्रद्युम्नवद् देव्या समये सुपुवे सुतः ॥१०॥ दोहदार्थानुसारेण पितरौ चक्रतुः
क्रमात् । तस्य मेघकुमाराख्यां सुग्नमैधत सोऽप्यथ ॥२०॥ इतश्चैकः पुरा विप्रः प्रारंभे यष्टुभध्वरम् । ता दासं नियुक्तकं दासोऽप्येवं तमृचिवान् ॥ २१ ॥ मह्यं ददासि शेषं चेत्तदा स्थास्यामि नान्यथा । विनोऽप्यगीचकारतद् दासोऽस्थाद् यज्ञपालकः ।। २२ ।। लब्धं शेषं ददौ सोऽपि साधुभ्यः सर्वदा मुदा । तद्दानपुण्यतो देाभूतोऽभुंक्त दिवःश्रियम् ॥२३ ॥ दासजीवो दिवश्च्युत्वा नन्दिपेनाभिधः सुतः । श्रेणिकस्याऽभवत् सोऽपि विमो
भूरिभवेऽभ्रमत् ॥ २४ ॥ इतश्चैकन कान्तारे करियूथे गरीयसि । एको यूथाधिपः स्याना हस्तिमल्लनिभोऽभवत् 2॥ २५ ॥ माऽमी भूवन् युवानोऽस्य वशायूथस्य नायकाः। इत्याकृताज्जातमात्रान् सुतानयममारयत् ॥ २६ ॥ एकस्या यूथवासिन्या हस्तिन्या उदरेऽन्यदा । अवातरत् विप्रजीवो गर्भिणीसाऽप्यचिन्तयत् ॥२७॥ पापिमनाऽ
नेन पुत्रा मे बहवोऽग्रेऽपि मारिताः। अमुं केनाऽप्युपायेन रक्षिष्याम्यधुनांगजम् ॥ २८ ॥ इति निश्चित्य सा गावातभग्नपादेव हस्तिनी । बभूव मायया कुण्टा मन्दं मन्दं ययौ पथि ॥२९॥ अन्य यूथपतेर्भाग्या मा स्म भूदसकाविति । स्तोकं स्तोकं व्रजन यूथनाथस्तां पथ्यपालयत् ॥३०॥ साऽतीव मन्दगा भूत्वा हस्तिनी तस्य हस्तिनः। अर्द्धयामेन यामेन मिलदहा व्यहेन वा ॥ ३१॥ अशक्तैव बराकीयं मिलति से चिरादपि । इतीभः स विशश्वास वंच्यते को न मायिभिः ॥३२॥ दूरगे यूथपे तस्मिन्नन्यदा सा करेणुका । तृणपूलकमाधाय मृघ्नोऽगात् तापसाश्रमम् ॥ ३३ ॥ मस्तकन्यस्तपूलाऽसौ पतंती तत्र तापसैः । प्रा.रज्ञायि काऽप्येषा बराकी शरणार्थिनी ।।