________________
• चैत्यन्नन्दन॥२६॥
॥ ३४ ॥ भव हस्तिनि विश्वस्ता प्रोक्तेत्थं तापसैस्ततः । सुखं तत्राश्रमे तस्थौ पितृधाम्नीव पुत्रिका ॥ ३५ ॥ अन्यदाऽसूत तनयं तं त्यक्त्वा तापसाश्रमे । स्वयं स्वयूथेन समं व्यचरत् सा तथैवहि ॥ ३६ ॥ सा तस्मै कलभायादादागत्यागत्य चान्तरा । स्तन्यं तेन प्रवृद्धिं स व्याससादाश्रमद्रुवत् ॥ ३७ ॥ नीवाराणां सुपक्कानां शलक्याः कवलैस्तथा । अपोषयन्निजं पुत्रमिव तं तापसाः सदा ॥ ३८ ॥ कलशैः सिञ्चतो वृक्षांस्तापसांस्तान् नि|रीक्ष्य सः । सिषेच पयसापूर्याऽऽपूयाऽसौ च करं करी ॥ ३९ ॥ इत्थमाश्रमजान् वृक्षान् प्रत्यहं तस्य सिञ्चतः । | सेचनक इति ख्यातिं वितेनुस्तापसास्ततः ॥ ४० ॥ यौवनं सदनं स्थान आससाद स वारणः । वीक्षांचक्रे नदीतीरे यूथेशं तातमन्यदा ॥ ४१ ॥ जराजर्जरदेहं तं युवाऽलावीत् स वृक्षवत् । पशूनां मोहमूदानां विवेको हि कुतो भवेत् ॥४२॥ यूथनाथः स्वयं जज्ञे कृतघ्नोऽचिन्तयद् द्विपः । मन्मातेवाऽ परा काऽपि करिणीनं प्रसोष्यति ॥ ४३ ॥ तापसाश्रममाश्रित्य सा प्रच्छिन्नं निजार्भकम् । वर्द्धयिष्यति चेन्मेऽसौ ऽनर्थभूतो भविष्यति ॥ ४४ ॥ उन्मूलयामि निर्मूलं तस्मादाश्रममेवहि । विमृश्येति झटित्येष तं मूलादुदमूलयत् ॥ ४५ ॥ त्रिभिर्विशेषकम् ॥ ततस्ते तापसाः सर्वे मिलित्वा श्रेणिकान्तिके । गत्वा पूञ्चक्रिरे चौरविलुप्ताः पथिका इव ॥ ४६ ॥ दैत्यवद् देव | दुर्दान्तो मदान्धः सितसिन्धुरः । त्वय्याश्रमगुरौ सर्वमभांक्षीदस्मदाश्रमम् ॥ ४७ ॥ भूभुजा निहताशेषप्रत्यूहव्यूह संगमाः । अनुतिष्ठन्ति राजेन्द्र सुखमाश्रमिणो व्रतम् ॥ ४८ ॥ यत उक्तम् ॥ दुर्बलानामनाथानां बालवृद्धतपखिनाम् । अनाय्यैः परिभूतानां सर्वेषां पार्थिवो गतिः ॥ ४९ ॥ प्रजानां धर्मषड्भागो राज्ञो भवति रक्षितुः ।
कुलकवृत्तिः
॥ २६ ॥