SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ॥ | अधर्मादपि षभागों यो न रक्षति मेदिनीम् ॥ २० ॥ तुपारभूधरस्कारगण्डशैलसहोदरः । गलन्मदजलामोदभ्रमद्भ्रमरभासुरः ॥ ५१ ॥ प्रलम्बदन्तमुसलः करेपन न्यूनवालधिः । विंशत्या नखरैश्चारुर्दीपपिङ्गविलोचनः ॥ ५२ ॥ लघुग्रीवश्चन्त उच्चकुम्भस्थलस्थितिः । मल्लक्षणः क्षितिं प्राप्त हवैरावणवारणः ॥ ५३ ॥ पट्टकुञ्जरता योग्यः स च तं हस्तिराट् नृपः । विषयेषु हि रत्नानि जायन्ते भूपभाग्यतः ॥ २४ ॥ चतुर्भिः कलापकम् ॥ इत्युक्तस्तापमै राजा गत्वाऽन्तर्वणमाशु नम् । बध्वा निन्यं निजे राज्ये किमसाध्यं हि भूभुजाम् ||१५|| ततोऽभूदाश्रमे क्षेममिति ते हृष्टमानसाः । तापसा एय नागं तमालानितमनर्जयन् ।। ५६ ।। पालितो लालितोऽस्माभिवर्द्धितः पोषितो भवान् । स्वस्थानोन्मूलको रे त्वं कृतनोऽभूः कृशानुवत् ॥ २७ ॥ अस्माकमाश्रमो भनि कृतनेन च यत्त्वया । तत्कर्मणः फलं ह्येतत्प्राप्तोऽस्यालानबद्धताम् ॥ ५८ ॥ सिन्धुरोऽपि हृदा दध्यौ ध्रुवमेतैस्तपखिभिः । पूत्कारोपायमाधाय दशां नीतोऽहमीदृशीम् ॥ ५९ ॥ रम्भास्तम्भमिव स्तम्भमभांक्षीदरुणेक्षणः । बन्धनत्रोटनं क्रुडः स चक्रे विशतन्तुवत् ॥ ६० ॥ सोऽभ्याश्रमं दध्यावेव करमुत्क्षिप्य विक्षिपन् । दूरेणेतस्ततः | सर्वास्तापसान् वमधूनिव ॥ ६१ ॥ नृपस्तं नागमानेतुं यादैः सुतैः सह । आश्वगान् मृगया प्राप्तमृगवन्तमवेष्टयत् ।। ६२ ।। मदोन्मत्तः करीन्द्रोऽथ स प्रलोभनतर्जने । पिशाचकीव नामस्त पहूनामपि सादिनाम् ।। ६३ ।। नन्दिषेणस्य वाचं स समाकर्ण्य विलोक्य च । जातावधिरभूच्छान्तोऽजानात् प्राग् जन्म तत्तथा ॥ ६४ ॥ ६५ ॥ नन्दिषेणस्य वाक्येन दन्तघातादिकाः क्रियाः । प्रकुर्वन् शिक्षित इव स आलानमुपाययौ ॥ ६६ ॥ अपरेऽपि हि
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy