________________
4
0-
दोहदं स्खलदक्षरम् ॥ ८७॥ दोहदं पूरयिष्यामीत्याश्चास्य श्रेणिकः प्रियाम् । अभिधत्ते स्म पीयूषपूषचारुगि-12 राऽभयम् ॥ ८८॥ स्वमातुः पूर्यतां वत्स दोहदोऽतीयदृष्करः । पूरयिष्ये त्वत्प्रसादाभयोऽप्यूचिवानिति ॥८९॥ युग्मम् ॥ ततोऽभयः श्रेणिकस्योदरोपरि शशामिषम् । न्यास्थचावृत्तं तच विदधे गुप्तिवृत्तितः ॥९०।। अभयः स्थापयामास चेलणां विजने ततः । दत्तं तन्मांसमत्ति स्म श्रेणिकं जानतीव सा ॥ ९१ ॥ मांसं तस्यां| |च खादन्त्यामेव वैतथ्यनाटकी। भूयो भूयो भुवो भा चक्रन्दच मुमूच्छे च ॥९२॥ इस्थमभयस्य बुद्ध्या
चेल्लणा पूर्णदोहदा । आः पतिभ्यहमाः पापेति व्यषीदत् पुनः पुनः ॥ ९३ ॥ देव्यै नृपोऽपि तत्कालमदर्शयत् हैखमक्षतम् । तदर्शनादहष्यत् साजिनीवार्कदर्शनात् ॥ ९४ ॥ पूणे काले जातमात्रं कान्ताकुशलकारणात् ।।
अशोकवनिकायां सा तनूदुभवममूमुचत् ॥ ९५॥ मुक्त्वा तं बालकं तत्र दास्यायान्त्यथ भूभुजा । पृष्टा कुत्र गताऽसीति यथाजातमुवाच सा॥९६॥ अशोकवनिकां गत्वा दीप्यमानं सुतं नृपः । वीक्ष्य जग्राह हस्ताभ्यां जहर्षे निधिलाभवत् ॥ ९७ ॥ आगत्य चेल्लणामूचे नृप औचित्यशालिनि ? । श्वपचैरप्यकार्य किं दुष्टं कर्मेदमाचरः॥९८ ॥ दुश्चारिण्यपि या स्त्री स्याद् धर्मकौलीन्यवर्जिता । कुरूपं गोलकं काणं त्यजत्येवं सुतं न सा ॥१९॥ चेल्लणोचे तव खामिन डिम्भदम्भेन वैर्यसौ । यस्मिन् गर्भस्थितेऽप्यासीद् दोहदः पतिघातकृत् ॥२०॥ तेनौज्झि जातमात्रोऽयं कुलीनानां हि योषिताम् । पत्यङ्गकुशलेच्छनां किं पुत्रेणापरेण वा ॥१॥ चेल्लणामन्वशाद् राजा चेत् त्यक्ष्यस्यादिमं सुतम् । तदा स्युस्तनयास्तेऽन्ये वुवुदा इब न स्थिराः ॥२॥ एवं खवल्लभा