________________
चैत्यवन्दन- श्रुतिमात्रेण कीलिता इव सर्वतः । भूभुजङ्गा विहस्ताङ्गा मुमूर्षव इवाऽभवन् ॥ ७२ ॥ यवुद्धिदापिका कापि कुलकवृत्तिः
दीप्यमाना दिवानिशम् । मरुभिरप्यविध्याप्या विध्यापयति या परान् ॥ ७३ ॥ चतुर्भिाकलापकम् ॥ अन्यदा ॥२४॥
चेल्लणां कन्यां श्रीचेटकनृपात्मजाम् । रूपनिर्जितस्वःस्त्रैणां श्रेणिकः परिणीतवान् ॥ ७४ ॥ पर्वेन्दुसुन्दरमुखी वरेन्दीवरलोचना । प्रदीपकलिकाकान्तनासापुटविराजिनी ॥ ७५ ॥ सुवर्णफलकाकारकपोलस्थलशालिनी ।। |बिम्बोष्ठी कुन्दकलिकादन्ती बन्धुरकन्धरा ॥ ७६ ॥ कुम्भिकुम्भस्थलस्थूलकुचमण्डलमण्डना । शृंगाररसवाप्याभनाभिः पृथक कटीस्थितिः॥ ७७॥ कदलीकाण्डकान्तोरूः कोमलांघ्रिसरोरुहा । सर्वाङ्गसुन्दरा साऽभूत् विदधे सर्वोत्तमाकृतिः ॥ ७८ ॥ यल्लावण्यपयः पीत्वा युवानो रसवेदिनः । चित्रं न बहमन्यन्त सुधामधुरतामपि ॥७९॥ ततश्चेल्लणया देव्या समं श्रेणिकभूपतिः । भोगानभुंक्त शच्येव विन्दारकगणाधिपः॥८॥ व्यन्तरायुरतिक्रम्य मन्त्रिसूः क्षपकोऽथ सः । उत्पेदे चेल्लणाकुक्षी सिंहखप्नेन सूचितः ॥८१॥ दोषेण तस्य | गभेस्य भत्तेमांसादनेऽभवत् । दोहदश्चेल्लणाया राक्षस्या अपि यो नहि ॥८२ ॥ चेल्लणा भर्तृभक्तत्वान्नोचे| | कस्यापि दोहदम् । अपूणेदोहदा क्षैषीत् क्षयव्याधिमतीव सा ॥८३ ॥ स गर्भः पात्यमानोऽपि दुदोहदवि-14 रक्तया । देव्या चेल्लणया पापमप्याश्रित्यापतन्नहि ॥ ८४॥ शुष्यदङ्गीं नृपो दृष्टा तां निर्जललतामिव । अप्रश्न-IN
| ॥२४॥ कायत् तन्निमित्तं गिरा प्रेमसुधाकिरा ॥ ८५॥ किं केनाप्यभिभूताऽसि स्खलिताज्ञाऽसि वा क्वचित् । दुःखमं प्रैक्षि
वा किंचित् भग्नकामाऽसि च प्रिये ॥८६॥ एवं भूमीवल्लभेन चेल्लणा प्रश्चिताग्रहात् । कथंचन समाचख्यो
SASAASAASAASAASAASAS