________________
मैक्षिष्ट जनं प्रभूतं मिथः स तत्रेति च वार्त्तयन्तम् । आनन्दनामा जिनवीरशिष्यो गृही गृहीतानशनोकर ४चात्र ॥४६॥ द्रष्टुं ततस्तं जगतः प्रतीक्ष्यः श्रीगौतमः पौषधधान्नययासीत् । कस्योपबृंहास्पदमेष नाहो यं वीक्षितुं
गौतम आजगाम ॥४७॥ अनभ्रवृष्टिप्रतिभं प्रभुं तं निभाल्य भालाहितहस्तकोशः । हर्षाम्बुवर्षोद्गतरोमरा| जिरानन्द आनन्दकरं ववन्दे ॥४८॥ ऊचे च भट्टारकमक्षमोऽहं क्षामस्तपोभिस्तव पार्श्वमेतुम् । पार्श्व प्रसीदैहि
मम स्पृहामि यथा पदौ ते शिरसा शरण्य ? ॥४९॥ तद्वाक्यमाकये मुनीश्वरोऽपि दूतं तदासन्नपदं प्रपेदे । लासोऽपि त्रिधानन्दमनिन्दितात्मा मुहुस्तदंघी शिरसा ममर्श ॥५०॥ फलेग्रहिमें सुकृतदुमोऽभूत् तुष्टेन दैवेन |
कटाक्षितोऽहम् । ममानुकूल: समयो ललास प्राप्तोऽद्य रेखां धुरि धार्मिकाणाम् ॥५१॥ अद्याभवन् मामकधर्म
निर्मितिप्रासादमौली कलशाधिरोपणम् । श्रीगौतमो मां यदुपस्थितोऽलसं गङ्गेति वाचेति गृणन् मुहर्मुहः॥ &|॥५२॥ त्रिभिर्विशेषकम् । आनन्द आपृच्छदथेन्द्रभूति विभोऽवधिः स्याद् गृहमेधिनः किम् । भवेदिति माह
गुरुस्ततोऽसावचीकथत् तर्हि ममोदपादि ॥५३॥ पूर्वाध्यादिषु पञ्चयोजनशती प्रत्येकमीक्ष्यत् तथोदीच्यामा४|हिमभूधरात् सुरपथे यावत् सुधर्मालयम् । घमोद्यप्रतरन्तु यावदधरे जाड्यान्धकारच्छिदा दीप्रेणावधिदीपकेन|
लसता श्रीइन्द्रभूतिप्रभो ?॥५४॥ मुनिस्तमूचे गृहिणो नहीदृशोऽवधिर्भवेत् सत्तम? सात्विकावधे। आलोचय स्थानमिदं ततस्त्वरा मा स्म प्रमादीर्विदितार्हतागमः ॥५५॥ आनन्द आख्यद् भगवन् ? भवेत् किं सद्भूतभावं भणतोऽपि दोषः। श्रीगौतमः स्माह महानुभाग? सत्याभिधाने किल कोऽपराधः॥५६॥ सोऽथाभि-