________________
चैत्यवन्दन॥११७॥
| बहूनाम् ॥ ३३ ॥ निरन्तरं तद्व्यवहारचिन्ताविहस्तचित्तस्य मम प्रमादात् । मा भूज्जिनोपज्ञसुधर्ममर्मनिर्माणकर्मस्खलना कदापि ॥ ३४ ॥ एवं विमृश्याशु विभातकाले कोल्लाकसंज्ञायुजि सन्निवेशे । आस्थानशालामिव धर्मनेतुरचीकरत् पौषधशालिकां सः ॥ ३५ ॥ निमन्त्रय मित्रखजनादिवर्ग सुखादुभोज्यैरुपभोज्य चासौ । निजाङ्गजे धूर्य इवात्मभारं निवेशयामास वशंवदात्मा ॥ ३६ ॥ आपृच्छ्य पुत्रादिकुटुम्बलोकं स्वयं महात्मेव निरीहवृत्तिः । तृण्यामिव प्रोज्झ्य समां समृद्धिं सोऽथागमत् पौषधधाम धीमान् ॥ ३७|| दुष्कर्मभिः साकमसौ शरीरं तीत्रैस्तपोभिः ऋशयन्नजस्रम् । उवाह निश्रेयससौधशृंगसोपानपंक्तीः प्रतिमाः समस्ताः ॥ ३८ ॥ जातो - स्थिचर्मद्वयमात्रगात्रस्तीव्रं तपस्तापमपाचिकीर्षुः । संतोषपीयूषसरोवरान्तः क्रीडामयं रात्रिदिनं चकार ॥ ॥ ३९ ॥ मुदान्यदायं वृषजागरेण जाग्रन्निशीथे मनसीदमाधात् । गतागते यावदलंविधातुं यावञ्च शब्दायितुमीश्वरोऽहम् ॥४०॥ युग्मम् । यावच्च मे धर्मगुरुर्धरायां श्रीवर्द्धमानः कुरुते विहारम् । संलेखनां तावदहं द्विधापि विधाय कुर्वेऽनशनं शुभेच्छुः ॥ ४१ ॥ युग्मम् । एवं विचिन्त्यैष तथैव चक्रे सुश्राद्धवृन्दारकवृन्दचन्द्रः । मनोवचः काय विचेष्टितानां मिथो विभेदो नहि तादृशानाम् ॥ ४२ ॥ ध्यानैकतानस्य कषायजिष्णोः समत्वचि - | न्तांचितचेतसोऽस्य । आविर्बभूवावरणक्षयेणावधिः पयोदापगमे यथार्कः ॥ ४३ ॥ इतश्च चञ्चच्छुचिदेवदूष्यवि| भूषणाभूषित सर्वकायैः । वृत्तः सुरैर्दूतिपलाशवन्यां श्रीवीर आगाद् वृषमादिशच्च ॥ ४४ ॥ प्राप्तेऽथ काले प्रभुरिन्द्रभूतिर्भिक्षां भ्रमन्नात्तविशुद्धपिण्डः । कोल्लाक आनन्दविराजितेऽगादाहृतवत्तच्छुभदूतकेन ॥ ४५ ॥ संभूत
कुलकवृचिः
॥११७॥