________________
सामग्रीं ग्राहयामास सा तदा ॥ ४९ ॥ प्रतस्थेऽतस्तया सार्द्धमवन्त्या बहिराययौ । मुक्त्वाऽस्मि तत्र तां रात्रौ ख | लात्वाऽगमं गृहम् ॥ ५० ॥ तत्राद्राक्षं सुखात् सुप्तां परपुंसा समं प्रियाम् । ततोऽस्मि तं विटं कोपाज्जघान च | निजासिना ॥ ५१ ॥ स्थितः प्रच्छन्नमैक्षेऽहं तया क्षणविबुद्धया । खंडीकृत्य विटस्याङ्गं गर्त्तायां निदधे क्षणात् ॥५२॥ धूल्या संपूर्ण तां गत्तां तदूर्ध्वं पीठमुच्चकैः । विधाय तच्च लिहवा सा मण्डयामास तत्क्षणात् ॥५३॥ दृष् तत्सकलं तस्यां सुप्तायां बहिरागमम् । पुरस्तान्मगध सेनायास्तद्वृत्तान्तमचीकथम् ॥ ५४ ॥ राजगृहं तया सार्द्ध प्रत्यावृत्याऽहमाययौ । स्थित्वा तत्र कियत्कालमुज्जयिन्यां समागमम् ॥ ५५ ॥ जनकं जननीं बन्धुश्चानन्य वच| नादिना । अज्ञापयन् खमाकूतं गृहिणीगृहमागमम् ॥ ५६ ॥ कपटप्रकटानन्दा सा मां प्राप्तं गृहाङ्गणे । जगाद | चिरकालात् त्वं किमगा जीवितेश्वरः ॥ ५७ ॥ मयोचे त्वत्कृते कान्ते प्रैक्षि सर्वत्र तत्र तत् । मृगपुच्छपलं कापि न प्रापी यद् दिनैरपि ॥ ५८ ॥ असिद्धकार्य आगन्तुमनिच्छन्नपि चेतसा । तव प्रेमगुणाकृष्टो निकषात् त्वां | समागमम् ॥ ५९ ॥ ततो निजगृहे स्थास्नुरहमद्राक्षमेकदा । नैवेद्येन तथा पीठं पूज्यमानं मुदादितः ॥ ६० ॥ ततो मया निजे चित्ते पर्य्यभावि तदेदृशम् । तस्मिन् जारेऽनुरक्तेयं तत्पीठं पूजयत्यलम् ॥ ६१ ॥ अन्येद्युः सा | मयाऽभाणि मन्निमित्तं प्रिये कुरु । घृतपूरान् घृतापूर्णान् बहुखण्डान्वितान् नवान् ॥ ६२ ॥ यावत्तांश्च न भोक्षेऽहं प्रथमं श्रद्धया त्वया । तावन्न देयमन्यस्मै तन्मध्यात् किमपि प्रिये ॥ ६३ ॥ तयोचे भणसीदं किं किं त्वत्तोऽपि मम प्रियः । अन्यः कोऽप्यस्ति दास्यामि यस्मै भोजनमादितः ॥ ६४ ॥ भोजनावसरे भोक्तुं विष्टरेऽह