SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ A न, राजा सावधिः । समाग्रतिनो पुल पुरीस्थांस्तान् कथं कारमस्मि तोषयितुं क्षमः ॥ ८७॥ उच्चैर्वचोऽपि नो युक्तं, प्रवक्तुं गुरुणा समम् । शिष्यस्य बुद्ध्यवक्रस्य, वक्रवादे च का कथा ॥ ८८॥ सकृद्वाद विधानेऽपि, स्ववीर्य लब्धवानहम् । इति मे गुणपात्रस्य, न त्रपाऽमुष्य दीक्षया ॥ ८९॥ अतःपरं शरण्यस्यास्यैव मे शरणं पदौ । अलसस्यापि सत्पुंसः, प्रतिज्ञा नान्यथा भवेत् ॥१०॥ इति संबोधितस्तेन, राजा सौवस्तिकादियुक । वृद्धसिद्धौ मुदा नत्वा, स्वकीयस्थानमागमत् ॥११॥ सिद्धोऽप्यधीतसिद्धान्तो गीतार्थो गुणशेवधिः । समारोप्यनुरूपत्वात् खपट्टे गुरुणा खयम् ॥९२॥ अध्यामधीः स सिद्धान्तान् , साधूनध्यापयन मुदा । अन्यदा वतिनो वृद्धान् , प्रोचे प्रज्ञाप्रकर्षतः॥९३ ॥ खसिद्धान्ता न शोभन्ते, प्राकृता गणभृत्कृताः। इति चेदनुजानीत, कुर्मेऽहं तर्हि संस्कृतान् ॥१४॥ प्रत्यूचुस्तेऽथ तं वाक्यादस्माद् यत् कर्म निर्मितम् । तद्यूयमेव जानीथ समयज्ञा न चापराः ॥९५॥ सिद्धोऽपि सिद्धगामित्वात् , पश्चात्तापादचिन्तयत् । सिद्धान्ताशातनातो हा, जज्ञेऽहं पङ्कपङ्किलः ॥ ९६ ॥ यत उक्तम्-बालस्त्रीमूढमूखाणां, नृणां चारित्रकांक्षिणाम् । अनुग्रहार्थ तत्त्वज्ञैः, सिद्धान्तः प्राकृतः कृतः॥९७॥ यदि पाराञ्चितप्रायश्चित्तं शोचमिवादधे । तदा शुद्धिर्भवित्री मे नान्यथाऽत्र कथंचन ॥९८ ॥ इति ध्यात्वाऽथ वृद्धभ्यो, गच्छंद दत्त्वा मुनीश्वरः । सिद्धसेनश्चिकीर्षुस्तद्वभूवान् व्यक्तवेषयुक् ॥ ९९ ॥ ततो मह्यां परिभ्रम्य, यावत् कांश्चन हायनान् । सिद्धसेनः पुनः पुर्यामवन्त्यामाययौतराम् ॥१०॥ विद्यामठे महाकालप्रासादस्यान्तिके ततः । एहिरे जाहिरे नित्यं, चकाराकारगोपनात्॥१०१॥ छात्रपञ्चशती तत्राधीयाना तमभाषत । किमु भोस्त्वमुपाध्यायं CADAISUALLERGROGAME
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy