SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन कलकति ॥१४॥ SALSALA नानमसि नचेश्वरम् ॥१०२॥ तानुवाच ततः सिद्धो, युष्मद्देवगुरू न मे । प्रणामं सहतस्तेन न नमस्यामि तद् द्वयम् ॥१०३॥ ज्ञात्वोदन्तं तमूचेऽथोपाध्यायइछात्रसंयुतः। विनेश्वरनमस्कार, स्थातुं रे नात्र लभ्यते ॥१०४॥ स प्रत्युवाच तान् पुर्याः को मां प्रस्थापयिष्यति । कश्च शम्भुनमस्कारं, कारयिष्यति भो बलात् ॥१०५॥स विनेय उपाध्यायस्ततः कोपारुणेक्षणः। शीघ्रं गत्वा नृपस्याग्रे तत्स्वरूपं व्यजिज्ञपत् ॥१०६॥ तदाकर्ण्य नृपोऽप्येत्य, सत्वरं स परिच्छदः। तं पप्रच्छाभिषेकोक्तं, सोऽवम् भूपैवमेव तत् ॥ १०७॥ भृकुटीभीषणो भूपो, द्वात्रिंशन्निगडान् रुषा । अङ्गेषु क्षेपयित्वास्य तमीशाग्रे न्यधापयत् ॥ १०८॥ विनेश्वरनमस्कार, मोक्षस्ते नास्ति भिक्षुक । इति मुक्त्वाभिमानं भोः शम्भुदेवं नमस्कुरु ॥१०९॥ विपाको मन्नमस्याया न भावी नृप सुन्दरः । इत्युक्ते तेन स माह यन्मतं तत् कुरु द्रुतम् ॥ ११ ॥ जिनशम्भुसमैर्वाक्यैर्द्वात्रिंशचक्रिरे ततः। द्वात्रिंशत्का नवास्तेन द्वात्रिंशद्वन्धभञ्जिका ॥१११॥ चकम्पे ताभिरष्टाभिरष्टाभिः प्रजगर्ज च । शम्भुसद्म ततोऽष्टाभिलिङ्गं धूमायते स्म तत् ॥११२॥ अष्टाभिः प्रज्वलदूज्वालानलेन स्फुटितस्ततः। निस्संसारादिनाथस्य, विम्बतल्लोचनामृतम् ॥ ११३ ॥राजलोकं समक्षं तन्नमस्कृत्य मुनीश्वरः । व्यक्तवेषोऽवदद् देवोऽयमेव मे नतेः सहः ॥ ११४ ॥ पुरोहितसुतोऽयं स इति ज्ञात्वा धराधिपः । समं समस्तलोकेनाऽनंसीत् तं चित्रकारिणम् ॥ ११५ ॥ झटित्यागत्य संघेन, सूरिनेमे सविस्तरम् । सिद्धसेनस्ततः शुद्धः, खं गच्छं पर्यपालयत् ॥११६॥ भृगुकच्छपुरेऽन्येधुर्व्यहार्षीत् स महर्षिराट् । ततस्तत्रत्यसंघस्तं संजुर्व्यज्ञपयन्मुदा ॥ ११७ ॥ अश्वावबोधतीर्थस्य ॥१४॥
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy