SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ मुनिसुव्रतसद्मनः । यथोद्धारो भवेत् तूर्ण तथा यूयं प्रसीदत ॥ ११८॥ जीर्णोद्धारो महापुण्यो द्वारहेतुर्यतो भवेत् । इति संघेन विज्ञप्तश्चैत्योद्धारचिकीर्षया ॥११०॥ गत्वाऽवन्त्यां नृपद्वारे द्वाःस्थं सिद्धोऽभ्यधादिति । राजपार्श्वे द्रुतं गत्वा शीघ्रमेवं निवेदय ॥ १२० ॥ विक्षुर्भिक्षुरायातो, द्वारि तिष्ठति वारितः । हस्तन्यस्तचतुः श्लोकः किमागच्छतु गच्छतु ।। १२१ ।। द्वाःस्थेन राज्ञि विज्ञप्ते, राज्ञोक्तं मुच्यतामयम् । तेन मुक्तो नृपस्याग्रे, भूयः सिद्धोऽभ्यधाददः॥ १२२॥ अमी पानकरङ्काभाः सप्ताऽपि जडराशयः । त्वद्यशो राजहंसस्य पंजरं भुवनत्रयम् ॥१२३॥ अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुतः । मार्गणः कर्णमायाति गुणो याति दिगन्तरम् १२४ भयमेकमनेकेभ्यः शत्रुभ्यो युगपत् सदा । ददासि तच्च ते नास्ति, राजन् चित्रमिदं महत् ॥ १२५ ॥ सर्वदा सर्वदोऽसि त्वं, मिथ्या संस्तूयते जनैः । नारयो लेभिरे पृष्ठं न वक्षः परयोषितः ॥ १२६ ॥ हृष्टोऽथ विक्रमः स्माह, सिद्ध साध्यं निवेदय । भृगुकच्छविहारस्योडारः स्यात् भवता कृतः ॥ १२७ ॥ इत्युक्ते सिद्धसेनेन, सूरिणा धरणीधवः । रैकोर्टि दापयामास विहारोद्धारहेतवे ॥ १२८ ॥ तत् खर्ण सूरिवाक्येन, जगृहे तीर्थगोष्टिकैः । राजबह्याममुं श्लोकं, कायस्था लिलिखुस्तराम् ॥ १२९ ॥ धर्मलाभ इति प्रोक्ते, दूरादुच्छ्रितपाणये। सूरये सिद्धसेनाय, ददौ कोर्टि नराधिपः ॥ १३०॥ द्वितीयवासरे सूरिर्वरिवस्या कृते ततः। विक्रमादित्यराजेन्द्रः पौषधागारमागमत् ॥ १३१॥ तत्र जीवादितत्त्वानि, श्रुत्वा सूरिमुखाम्बुजात् । झटित्युन्मुक्तमिथ्यात्वो विक्रमोऽभूदुपासकः॥१३२॥ इत्थं तीर्थविभावना विरचना पीयूषयूषच्छटा स्नात्रक्षालितपापपङ्कपटलः श्रीसिद्ध
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy