________________
चैत्यवन्दन
॥१५॥
सेनाभिधः । सूरिगच्छधुराधुरंधररमामात्वा पुनर्निममः शीलश्रीपरिशीलनोज्वलमनाः श्रीद्यामनागाअगात् ६ कुलकवृचिः &॥ १३३ ॥ इति श्रीजिनशासनप्रभावकश्रीसिद्धसेनसूरिकथानकं समाप्तम् ॥ ४॥
सूत्रकारेण विधिना जिनागमोक्तेनेति पदयुगलेनायमपि विधिः सूचितः। तथाहि-पूर्वमपारसंसारपारावारनिमज्जज्जन्तुवारनिस्तारप्रवहणसब्रह्मचारिणां सुगुरूणां वदनारविन्दात् सम्यक्त्वखरूपं सम्यक् श्रोतव्यं, तथाहिसम्यक्त्वं नाम आत्मनः शुभः परिणामविशेषः यद्वशादष्टादशदोषकालुष्याकलुषिते चतुस्त्रिंशदतिशयविभूषिते सर्वदर्शिनि सर्वज्ञे सर्वहिते सर्वमहिते त्रिभुवनजनमनोहार्यष्टमहाप्रातिहार्यपूजाविभ्राजिनि दुर्वणखवर्णरत्नमयप्रकारत्रयमध्यविराजनि मामासुरवरविरचितसेवदेवाधिदेववीतरागे भगवति श्रीतीर्थकरदेवे देवबुद्धिरुपजायते, रागद्वेषकलंकिते वरवर्णिनीचऋत्रिशूलजपमालिकादिधारिणि हरिहरब्रह्मादी देवबुद्धिर्न संपद्यते । पञ्चसमितिसमिते त्रिगुप्तिगुप्ते पश्च महाव्रतप्रतिपालकेऽष्टादशसहस्रशीलाङ्गधारके मुनिजने गुरुबुद्धिर्भवति, षड्विधजीवनिकायोपमईनिरते परिग्रहाऽऽरम्भाविरते मिथ्यामार्गोपदेशिनि जटाधरब्राह्मणावषन्नपार्श्वस्थादिद्रव्यलिङ्गिनि गुम्वुद्धिर्न जायते,जीवदयामूले संसारसागरनिमजजन्तुजातपोतकल्पे सकलखग्र्गा
।॥१५॥ पवर्गादिकमालावल्लीवितानप्रावृषेण्यपयोवाहसहोदरेऽनेकभवोपार्जितपापपङ्कप्रक्षालनसलिलपूरसहोदरे सर्वज्ञप्रणीते क्षान्त्यादिदशविधयतिधर्मे सम्यक्त्वमूलद्वादशत्रतरूपश्राद्धधर्मे च धर्मवुद्धिरुत्पद्यते । यज्ञहोमतीर्थस्नान