SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन॥१००॥ ॥ १४ ॥ आत्मीयात्मसमं विश्वं मन्यमाना मनीषिणः । प्राणात्ययेऽपि हिंसन्ति, न कथञ्चन देहिनः ॥ १५ ॥ द्विषोऽपि सम्मुखीभूतान्, ये न घ्नन्ति महाभटाः । कथं ते विगलन्मन्तून्, जन्तून्, व्यापादयन्त्यलम् ॥ १६ ॥ अहिंसामेव शंसन्ति मुनयो मुक्तिसाधनम् । सर्वादरेणानुष्ठेयाऽहिंसैवातो विवेकिभिः ॥ १७ ॥ त्रिभिः विशेष कम् । इति साधुगिरासारसुधासारनिषेकतः । लसद्विवेकवल्लीकः, स नत्वादोऽब्रवीन्मुनिम् ॥ १८ ॥ प्रभो नाहं हनिष्याम्यतः परं जङ्गमाङ्गिनः । खामिकार्ये तु युधान्तर्युध्यमानानरीन्विना ॥ १९ ॥ इत्यात्तनियमो नत्वा, | चन्द्रश्चन्द्रोपमं गुरुम् । श्रीरत्नपत्तनाधीशं, जयसेनमसेवत ॥ २० ॥ सत्यशौचौचितीदाक्ष्यदाक्षिण्यादिगुणैर्भृशम् । राजादीनां प्रियः सोऽभूत्, सर्वत्रार्या हि सद्गुणाः ॥२१॥ मेदिनीपतिरन्येद्युरूर्जखलभुजोज्वलम् । सन्मानदानपूर्वं तं, रहस्येवमभाषत ॥ २२ ॥ चन्द्र ? दुर्गबलोन्मत्तः सद्भः कुंभनामकः । चरटः प्रकटान्यायः पराज |य्योऽस्ति संप्रति ॥ २३ ॥ यो लुण्ठति महासार्थान् गच्छदागच्छतः पथि । उपद्रवति मद्देशं व्याघ्रवत्संततिं गवाम् ||२४|| मामकीनमनोमध्ये स शल्यति दिवानिशम् । सुप्तमेव निहत्यामुं मां वत्स ? सुखिनं कुरु ॥ २५ ॥ त्रिभिर्विशेषकम् ॥ इत्युक्तो भूभुजांगेन जागरूको निजव्रते । योजितांजलिरानम्य चन्द्रो भूपालमब्रवीत् ॥ २६ ॥ जन्तुं सुतं प्रमत्तं वा मध्ये युद्धमपि प्रभो । निहंतुं नियमो मेऽस्ति किं वाच्यं तस्थुषो गृहे ॥ २७ ॥ श्रुत्वेति निश्चयं चान्द्रमचलेशोऽनुषत्तराम् । गुणानां पक्षपातोऽत्र महतां हि महत्तमः ॥ २८ ॥ अंगरक्षादिमं सौवं | सेनान्यं च चकार तम् । मन्यमानः सुतमिव राजा तद्गुणरंजितः ॥ २९ ॥ चौर्योपजीविकासक्तः स कुंभचर कुलकवृचिः ॥१००॥
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy